अदस्तम् असि विष्णवे त्वा ॥ इति यज्ञो वै विष्णुर् यज्ञायैवैनद् अदस्तं करोति विष्णो हव्यं रक्षस्वेति यथाहैष ते भागस् तं रक्षस्वेत्य् एवं वा एतद् विष्णुम् आहैतत् ते हव्यं तद् रक्षस्वेति न मृत्पात्रेणापिदध्यात् पितृदेवत्यं हविः स्याद् दारुपात्रेणापिदध्याद् अग्निमद् वै दारुपात्रम् अग्निर् एव हव्यं रक्षत्य् उदन्वत् कार्यम् आपो वै रक्षोघ्नीर् अपो रक्षांसि न तरन्ति रक्षसाम् अपहत्यै ॥म्स्_४,१।३॥