०२

बर्हिर् असि देवङ्गमम् ॥ इत्य् आसन्नम् अभिमन्त्रयते बहु वा एतस्य पूर्वेद्युर् आह्रियमाणस्येह चेह च स्कन्दत्य् अस्कन्नम् एनद् देवताभ्यः सम्प्रादाद् यजमानस्याहिंसायै ॥म्स्_४,१।२॥

पूर्वेद्युर् इध्मा बर्हिः कुर्वन्ति यज्ञम् एवारभ्योपवसति प्रजापतिः प्रजा असृजत तस्योखे अस्रंसेतां स एताभ्याम् उखाभ्यां प्रत्यधत्त यद् एते उखे भवतः प्रजापतेर् एवोखे प्रतिदधाति शुन्धध्वं दैव्याय कर्मणा इति देवेभ्य एवैनानि शुन्धति वसूनां पवित्रम् असीति वसूनां वा एतद् भागधेयं तेभ्य एवैनत् करोति पवित्रम् अपिदधात्य् ओषधीनां च पशूनां च पयः संसृजति वाचं यछति यज्ञस्य धृत्यै धारयन्न् आस्ते धारयन्त इव हि दुहन्ति द्यौर् असि पृथिव्य् असीत्य् आभ्याम् एवैनां प्रवृणक्ति मातरिश्वनो घर्म इत्य् अन्तरिक्षं वै मातरिश्वनो घर्मो ऽन्तरिक्षस्य धृत्यै काम् अधुक्षः सा विश्वायुः सा विश्वभूः सा विश्वकर्मेत्य् असौ वाव विश्वायुर् अन्तरिक्षं विश्वभूर् इयं विश्वकर्मेमान् वा एतल् लोकान् यथापूर्वं प्रदापयत इमांल् लोकान् यथापूर्वं प्रत्तान् दुहे य एवं वेद तिस्रो यजुषाभिमन्त्रयते त्रयो वा इमे लोका एषु वा एतल् लोकेषु रसं दधाति तस्माद् इमांल् लोकान् प्रजा उपजीवन्ति हुतः स्तोको हुतो द्रप्स इत्य् अभिमन्त्रयते अस्कन्दाय ॥
एतल् : फ़्न् एमेन्देद्। एद्।: एतं

इन्द्राय देवेभ्यो हविर् बहु दुग्धि ॥ इति त्रिर् उद्वदति त्रिषत्या हि देवा न दारुपात्रेण दुह्याद् अग्निमद् वै दारुपात्रं यातयामेन हविषा यजेत तद् ध स्माहुर् दात्रेयाः पुरोडाशमुखं हविर् न वा इतैतः पुरोडाशं हविषो यामो ऽस्ति दोग्धव्यम् एवेति न शूद्रो दुह्याद् असतो वा एष सम्भूतो ऽसन्त् स्याद् यद् वै पवित्रम् अत्येति तद् धविर् अग्निहोत्रम् एव शूद्रो न दुह्यात् तद् धि नोत्पुनन्ति ॥

सम्पृच्यध्वम् ऋतावरीर् ऊर्मिणा मधुमत्तमाः ।
पृञ्चतीः पयसा पयो मन्द्रा धनस्य सातये ॥

इति प्रतिनयति शृतत्वाय शृतकामा हि देवा इन्द्राय त्वा भागं सोमेनातनच्मीति सोमम् एवैनत् करोति तस्य ह त्वै सोमपीथः सन्ततो य एवं विद्वान्त् सान्नाय्यं पिबति ॥