एवो ष्व् अस्मन् मुञ्चता व्य् अंहः प्रतार्य् अग्ने प्रतरं ना आयुः ॥म्स्_३,१६।५॥
वनस्पतीन् वा उग्रो देव उदौषत् तं शम्या अध्यशमयंस् तञ् शम्याः शमीत्वं यञ् शमीशाखया वत्सान् अपाकरोति शान्त्यै पर्णवती कार्या पशूनां वा एतद् रूपं पशुमान् भवति यद् अपर्णा स्याद् दण्डस्य तद् रूपं वज्रो दण्डो वज्रेण पशून् अभिप्रवर्तयेत् तृतीयस्यां वै दिवि सोम आसीत् तं गायत्री श्येनो भूत्वाहरत् तस्य पर्णम् अछिद्यत ततः पर्णो ऽजायत तत् पर्णस्य प्रणत्वं तस्मात् सर्वे ऽन्ये वनस्पतयः पर्णिनो ऽथैष पर्ण उच्यते यत् पर्णशाखया वत्सान् अपाकरोति तम् एव सोमम् अवरुन्द्धे देवा वै ब्रह्मन् समवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नामैष न बधिरो भवति य एवं वेद ब्रह्म वै पर्णो यत् पर्णशाखया प्रार्पयति ब्रह्मणैवैनाः प्रार्पयतीषे त्वेतीषम् ऊर्जं यज्ञे च यज्ञपतौ चाधाद् वायवः स्थेति वायुर् वा अन्तरिक्षस्याध्यक्षो ऽन्तरिक्षदेवत्याः पशवो वायुर् एवैनान् अन्तरिक्षाय परिददाति प्र वा एनान् एतद् आकरोति यद् वायवः स्थेत्य् आहारण्यस्येव हि वायुर् देवो वः सविता प्रार्पयत्व् इति सवितृप्रसूत एवैनाः प्रार्पयति श्रेष्ठतमाय कर्मणा इति यज्ञो वै श्रेष्ठतमो यज्ञायैवैनाः प्रार्पयत्य् आप्यायध्वम् अघ्न्या देवेभ्या इति वत्सेभ्यश् च वा एता मनुष्येभ्यश् च पुराप्यायन्ते ऽथैतर्हि देवेभ्य एवैना आप्याययति मा वः स्तेन ईशत माघशंसा इत्य् आशिषम् एवाशास्ते ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् इति प्रैव जनयति ॥
ब्रह्मन् : फ़्न् एमेन्देद्। एद्।: ब्रह्म।
शुद्धा अपः सुप्रपाणे पिबन्तीः ॥ इति पुनात्य् एवैनाः ॥
रुद्रस्य हेतिः परि वो वृणक्तु ॥ इति रुद्राद् एवैनास् त्रायन्ते ॥
पूषा वः परस्पा अदितिः प्रेत्वरीया इन्द्रो वो ऽध्यक्षो ऽनष्टाः पुनर् एत ॥ इति त्रयो वा इमे लोका एभ्य एवैना लोकेभ्यः पुनर् आवर्तयति यजमानस्य पशून् पाहीति यजमानस्यैव पशूनां गोपीथायाहिंसायै ॥