आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् ॥म्स्_३,१६।४॥
अग्नेर् मन्वे प्रथमस्यामृतानां यं पाञ्चजन्यं बहवः समिन्धते ।
विश्वस्यां विशि प्रविविशिवांसम् ईमहे स नो मुञ्चत्व् अंहसः ॥
यस्येदं प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् ।
स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप माम् उपागुः ।
यो दाशुषः सुकृतो हवम् उप गन्ता स नो मुञ्चत्व् अंहसः ॥
यः सङ्ग्रामं नयति सं वशी युधे यः पुष्टानि सम्मृजति त्रयाणि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अंहसः ॥
मन्वे वां मित्रावरुणा तस्य वित्तं सत्यौजसा दुर्हृणा यं नुदेथे ।
या राजाना सरथं यात उग्रा ता नो मुञ्चतम् आगसः ॥
यो वां रथ ऋजुरश्मिः सत्यधर्मा मिथुचरन्तम् उपयाति दूषयन् ।
स्तौमि मित्रावरुणौ नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥
वायोः सवितुर् विदथानि मन्महे या आत्मन्वद् बिभृतो यौ च रक्षतः ।
यौ विश्वस्य परिभू बभूवथुस् ता नो मुञ्चतम् आगसः ॥
उप श्रेष्ठा न आशिरो देवयोर् धर्मा अस्थिरन् ।
स्तौमि वायुं सवितारं नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥
रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः ।
ययोर् वां देवौ देवेष्व् अनिषितम् ओजस् ता नो मुञ्चतम् आगसः ॥
यद् अयातं वहतुं सूर्यायास् त्रिचक्रेण संसदम् इछमानौ ।
स्तौमि देवा अश्विनौ नाथितो जोहवीमि ता नो मुञ्चतम् आगसः ॥
मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
तिग्मम् आयुधं वीडितं सहस्वद् दिव्यं शर्धः पृतनासु जिष्णु ।
स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
यद् इदं माभिशोचति पौरुषेयेण दैव्येन ।
स्तौमि विश्वान् देवान् आथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
अन्व् अद्य नो अनुमतिर् अन्व् इद् अनुमते त्वं वैश्वानरो न ऊत्या ॥
त्वम् अग्ने शोचिषा शोशुचाना आ रोदसी अपृणा जायमानः ।
त्वं देवं अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥
उर्वी रोदसी वरिवस् कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रुवाथः ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥
ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अंहसः ॥
यच् चिद् धि ते पुरुषत्रा यविष्ठाचित्तिभिश् चकृमा कच्चिद् आगः ।
कृधी ष्व् अस्मं अदितेर् अनागान् एनांसि शिश्रथो विष्वग् अग्ने ॥
यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।