०२

स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥म्स्_३,१६।२॥

युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥

युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
सम् उषद्भिर् अजायथाः ॥

जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥

धन्वना गा धन्वन् आजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोर् अपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥

वक्ष्यन्तीवेद् आगनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥

ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यतः संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥

बहूनां पिता बहुर् अस्य पुत्रः चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥

रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चाद् अनुयछन्ति रश्मयः ॥

तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रून्र् अनपव्ययन्तः ॥

वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः सन्नद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥

दिवस् पृथिव्याः पर्य् अन्तरिक्षाद् वनस्पतिभ्यः पर्य् आवृतं सहः ।
अपाम् ओज्मानं परि गोभिर् आवृतम् इन्द्रस्य वज्रं हविषा रथं यज ॥

इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥

स्वादुषंसदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥

ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी उभे स्ताम् ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्स ईशत ॥

ऋजीते परिवृङ्ग्धि नो ऽश्मा भवतु नस् तनूः ।
सोमो अधिब्रवीतु नो ऽदितिः शर्म यछतु ॥

सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यंसन् ॥

अहिर् इव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परिपातु विश्वतः ॥

आजङ्घन्ति सान्व् एषां जघनं उपजिघ्नतु ।
अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु नोदय ॥

उपश्वासय पृथिवीम् उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
सं दुन्दुभे सजूर् इन्द्रेण देवैर् आराद् दवीयो अपसेध शत्रून् ॥

आक्रन्दय बलम् ओजो ना आधा निष्टनिहि दुरिता बाधमानः ।
अपप्रोथ दुन्दुभे दुछुना इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
इन्द्रस्य : फ़्न् एमेन्देद्। एद्।: इन्द्रस्य।

आमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति ।