०१

इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्य् अश्वम् ॥म्स्_३,१६।१॥
धनयीद् : फ़्न् मित्त्wएदे, तेxत्क्रितिस्छे बेमेर्कुन्गेन् ज़ुर् क्ः प्। १५५: ध्वनयीद्

समिद्धो अञ्जन् कृदरं मतीनां घृतम् अग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधस्थम् ॥

तनूनपात् सं पथो देवयानान् प्रजानन् वाज्य् अप्येतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्तां स्वधां देवैर् यजमानाय धेहि ॥

ईड्यश् चासि वन्द्यश् चासि वाजिन्न् आशुश् चासि मेध्यश् चासि सप्ते ।
अग्निष् ट्वा देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥

स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिर् अक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥

एता उ वः सुभगा विश्ववारा वि पक्षोभिः श्रयमाणा उद् आतैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥

अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने ।
उषासा वां सुहिरण्ये सुशिल्पे ऋतस्य योना इह सादयामि ॥

प्रथमा वां सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥

आदित्यैर् नो भारती वष्टु यज्ञं सरस्वती सह रुद्रैर् न आवीत् ।
इडोपहूता वसुभिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥

त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ॥

त्वष्टेमा विश्वा भुवना जजान बहोः कर्तारम् इह यक्षि होतः ॥

अश्वो घृतेन त्मन्या समक्ता उप देवं ऋतुशः पाथ एतु ।
वनस्पतिर् देवलोकं प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥

प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने ।