इति तृतीयकाण्डे पञ्चदशमः प्रपाठकः ॥म्स्_३,१५।११॥
मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परिक्शन् ।
यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्येतु पाथः ॥
विश्वरूप : फ़्न् एमेन्देद्। एद्।: विश्वरूपा
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभि प्रियं यत् पुरोडाशम् अर्वता त्वष्टेद् एनं सौश्रवसाय जिन्वति ॥
यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः ।
अन्व् एनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आपृणध्वम् ॥
यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं सम्भरन्त्य् उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥
यद् वाजिनो दाम सन्दानम् अर्वतो या शीर्षण्या रशना रज्जुर् अस्य ।
यद् वा घास्य प्रभृतम् आस्ये तृणं सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तञ् शमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
यद् अश्वस्य क्रविषो मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्रम् अस्ति ।
यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति ।
मा तद् भूम्याम् आश्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥
ये वाजिनं परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर्हरेति ।
ये चार्वतो मांसभिक्षाम् उपासते उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥
उपासते : फ़्न् थिस् स्होउल्द् बे उपासतास् थे रेसुल्त् ओफ़् सन्धि
यन् नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परिभूषन्त्य् अश्वम् ॥
यद् अश्वाय वास उपस्तृणन्त्य् अधिवासं या हिरण्यान्य् अस्मै ।
सन्दानम् अर्वन्तं पड्वीशं प्रिया देवेष्व् आयामयन्ति ॥
निक्रमणं निषदनं विवर्तनं यच् च पड्वीशम् अर्वतः ।
यच् च पपौ यच् च घासिं जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥
मा त्वाग्निर् धनयीद् धूमगन्धिर् मोखा भ्राजन्त्य् अभिविक्त जघ्रिः ।