१०

अग्नये गायत्राय त्रिवृते राथन्तराय वासन्तिकाय पुरोडाशम् अष्टाकपालं निर्वपतीन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रैष्माय पुरोडाशम् एकादशकपालं विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यः पुरोडाशं द्वादशकपालं मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविंशाभ्यां वैराजाभ्यां शारदाभ्यां पयस्यां बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुं सवित्र आतिछन्दसाय त्रयस्त्रिंशाय रैवताय शैशिराय पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालम् अदित्यै विष्णुपत्न्यै चरुं कायम् एककपालम् ॥म्स्_३,१५।१०॥

अग्नये ऽंहोमुचे पुरोडाशम् अष्टाकपालं निर्वपतीन्द्रायांहोमुचे पुरोडाशम् एकादशकपालं मित्रावरुणाभ्याम् आगोमुग्भ्यां पयस्यां वायुसवितृभ्याम् आगोमुग्भ्यां पयो ऽश्विभ्याम् आगोमुग्भ्यां धाना मरुद्भ्य एनोमुग्भ्यः पुरोडाशं सप्तकपालं विश्वेभ्यो देवेभ्य एनोमुग्भ्यः पुरोडाशं द्वादशकपालम् अनुमत्यै चरुं वैश्वानरं द्वादशकपालं द्यावापृथिवीभ्याम् अंहोमुग्भ्यां पुरोडाशं द्विकपालम् ॥