इन्द्रस्य क्रोडो ऽदित्याः पाजस्यं दिशां जत्रवो ऽदित्या भसद् जीमूतान् हृदयौपशाभ्याम् अन्तरिक्षं पुलीतता नभ उदर्येण वल्मीकान् क्लोम्ना ग्लौभिर् गुल्मांश् चक्रवाकौ मतस्नाभ्यां दिवं वृक्काभ्यां हिराभिः स्रवन्तीर् गिरीन् प्लाशिभ्याम् उपलान् प्लीह्ना ह्रदान् कुक्षिभ्यां समुद्रम् उदरेण वैश्वानरं भस्मना ॥म्स्_३,१५।७॥