०५

इन्द्राग्न्योः पक्षतिः सरस्वत्या निपक्षतिर् इन्द्रस्य तृतीया बृहस्पतेश् चतुर्थी निरृत्याः पञ्चमीन्द्राण्याः षष्ठी सर्पाणां सप्तमी विष्णोर् अष्टम्य् अर्यम्णो नवमी धातुर् दशमीन्द्रस्यैकादशी वरुणस्य द्वादशी यम्यास् त्रयोदशी द्यावापृथिव्योर् दक्षिणं पार्श्वं विश्वेषां देवानाम् उत्तरम् ॥म्स्_३,१५।५॥