०२

वातं प्राणेनापानेन नासिकाम् उपयामम् अधरेणौष्ठेन सद् उत्तरेण शुक्लाय स्वाहा कृष्णाय स्वाहा स्तनयित्नुं निर्बाधेन मूर्धानं निवेष्येणाशनिं मस्तिष्केण विद्युतं कनीनिकाभ्यां प्रकाशेनान्तरम् अनुकाशेन बाह्यं तेदनीम् अधरकण्ठेनापः शुष्ककण्ठेन चित्तं मन्याभिर् अदितिं शीर्ष्णा निरृतिं निर्जल्पेन शीर्ष्णा प्राणान्त् सङ्क्रोषैर् रेष्माणं स्तूपेन ॥म्स्_३,१५।२॥