अग्नये ऽनीकवते प्रथमजान् आलभते मरुद्भ्यः सान्तपनेभ्यः सवात्यान् मरुद्भ्यो गृहमेधेभ्यो वष्किहान् मरुद्भ्यः क्रीडिभ्यः संसृष्टान् मरुद्भ्यः स्वतवद्भ्यो ऽनुसृष्टान् ॥म्स्_३,१३।१४॥