०५

पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः प्लीहाकर्णः शुण्ठाकर्णो ऽधिरूढाकर्णस् ते त्वाष्ट्राः कृष्णग्रीवः शितिकक्षो ऽञ्जिषक्थस् त ऐन्द्राग्नाः कृष्णाञ्जिर् अल्पाञ्जिर् महाञ्जिस् त उषस्याः ॥म्स्_३,१३।५॥