बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते वारुणा रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते सौम्याः शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् ते बार्हस्पत्याः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते सावित्राः पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥म्स्_३,१३।३॥