०२

अश्वस् तूपरो गोमृगस् ते प्राजापत्याः कृष्णग्रीव आग्नेयो ललाटे पुरस्तात् सारस्वती मेष्य् अधस्ताद् धन्वोः श्यामः पौष्णो नाभ्याम् आश्विना अधोरामौ बाह्वोस् त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः सौर्ययामौ श्वेतश् च कृष्णश् च पार्श्वयोर् वायव्यः श्वेतः पुछ इन्द्राय स्वपस्याय वेहद् वैष्णवो वामनः ॥म्स्_३,१३।२॥
लोमशसक्थौ : फ़्न् एमेन्देद्। एद्।: लोमसक्थौ