२०

तौ सह चतुरः पदः सम्प्रसारयावः स्वर्गे लोके प्रोर्णुवातां वृषा वाम् अश्वो रेतोधा रेतो दधातु ॥म्स्_३,१२।२०॥

गायत्री त्रिष्टुब् जगत्य् अनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुब् देवानां पत्नयो विशः सूचीभिः शमयन्तु त्वा ॥

द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।
विछन्दा या च सछन्दाः सूचीभिः शमयन्तु त्वा ॥

रजताः सीसा हरिणीर् युजो युञ्जन्तु कर्मभिः ।
अश्वस्य वाजिनस् त्वचि स्यूमाः कृण्वन्तु शाम्यन्तीः ॥

महानाम्नी रेवतयो दैव्या आशाः प्रसूवरीः ।
मेघ्या विद्युतो वाचः सूचीभिः शमयन्तु त्वा ॥

योषास् ते पत्नयो लोम विचिन्वन्तु यथायथम् ।
सुपत्नीः पत्नयो वाजिन् प्रजया भुक्षीमहि ॥

कुविद् अङ्ग ॥