एतं स्तोतर् अनेन पथा पुनर् अश्वम् आवर्तयासि नः ॥म्स्_३,१२।१८॥
वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा भूर् भुवः स्वर् लाजी३ शाची३ यव्ये गव्य एतद् अन्नम् अत्त देवा एतद् अन्नम् अद्धि प्रजापते ॥
कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः ।
किं स्विद् धिमस्य भेषजं किम् अवावपनं महत् ॥
सूर्य एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिर् आवपनं महत् ॥
का स्विद् आसीत् पूर्वचित्तिः किं स्विद् आसीद् बृहद् वयः ।
का स्विद् आसीत् पिलिप्पिला का स्विद् आसीत् पिशङ्गिला ॥
द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः ।