उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिश् चन्द्रमास् ते महिमा ॥म्स्_३,१२।१७॥ युञ्जन्ति ब्रध्नम् अरुषं चरन्तं परि तस्थुषः । रोचन्ते रोचना दिवि ॥ यद् वातो ऽपो अगनीगन् प्रियाम् इन्द्रस्य तन्वम् ।