उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः सूर्यस् ते महिमा ॥म्स्_३,१२।१६॥ यः प्राणतो निमिषतश् च राजा पतिर् विश्वस्य जगतो बभूव । ईशे यो अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥