एकस्मै स्वाहा द्वाभ्यां स्वाहैकान्नशताय स्वाहा शताय स्वाहैकशताय स्वाहा व्युष्ट्यै स्वाहा स्वर्गाय स्वाहा ॥म्स्_३,१२।१५॥ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥