०४

विभूर् मात्रा प्रभूः पित्राश्वो ऽसि हयो ऽस्य् अत्यो ऽसि मयो ऽसि नरो ऽस्य् अर्वासि सप्तिर् असि वाज्य् असि वृषासि नृमणा असि ययुर् नामास्य् आदित्यानां पत्वान्विहि देवा आशापाला एतं देवेभ्यो अश्वं मेधाय प्रोक्षितं रक्षतेह धृतिर् इह स्वधृतिर् इह रम इह रमन्ताम् ॥म्स्_३,१२।४॥