इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः ॥म्स्_३,११।१२॥
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्वा आयुनि विदथेषु कव्या ।
सा नो अस्मिन्त् सुत आबभूव ऋतस्य सामन्त् सरम् आरपन्ती ॥
अभिधा असि भुवनम् असि यन्तासि धर्ता स त्वम् अग्निं वैश्वानरं सप्रथसं गछ स्वाहाकृतः स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्न् अश्वं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासं तं बधान देवेभ्यः प्रजापतये तेन राध्नुहि प्रजापतये त्वा जुष्टं प्रोक्षामि वायवे त्वा जुष्टं प्रोक्षामीन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि विश्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि सर्वेभ्यस् त्वा देवेभ्यो जुष्टं प्रोक्षामि ॥
प्रोक्षामि : फ़्न् एमेन्देद्। एद्।: पोक्षामि।
जुष्टं : फ़्न् एमेन्देद्। एद्।: जष्टुम्।
यो अर्वन्तं जिघांसति तम् अभ्यमीति वरुणः ।