१०

वैश्वानरज्योतिर् भूयासं विभुं कामं व्यशीय भूः स्वाहा ॥म्स्_३,११।१०॥

समिद्धो अग्निः समिधा सुसमिद्धो वरेण्यः ।
गायत्री छन्द इन्द्रियं त्रियविर् गौर् वयो दधुः ॥

तनूनपाञ् शुचिव्रतस् तनूपाश् च सरस्वती उष्णिक् छन्द इन्द्रियं दित्यवाड् गौर् वयो दधुः ॥
सरस्वती : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

इडाभिर् अग्निर् ईड्यः सोमो देवो अमर्त्यः ।
अनुष्टुप् छन्द इन्द्रियं पञ्चाविर् गौर् वयो दधुः ॥

सुबर्हिर् अग्निः पूषण्वान्त् स्तीर्णबर्हिर् अमर्त्यः ।
बृहती छन्द इन्द्रियं त्रिवत्सो गौर् वयो दधुः ॥

दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश् छन्द इन्द्रियं तुर्यवाड् गौर् वयो दधुः ॥

उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः ।
त्रिष्टुप् छन्द इन्द्रियं पृष्ठवाड् गौर् वयो दधुः ॥

दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
जगती छन्द इन्द्रियम् अनड्वान् गौर् वयो दधुः ॥

तिस्रो देवीर् इडा मही भारती मरुतो विशः ।
विराट् छन्द इन्द्रियं धेनुर् गौर् न वयो दधुः ॥

त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द इन्द्रियम् उक्षा गौर् न वयो दधुः ॥

शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
ककुप् छन्द इहेन्द्रियम् ऋषभो गौर् वयो दधुः ॥

स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।