अश्विभ्यां दुग्धं भिषजा सरस्वती सुतासुताभ्याम् अमृतः सोमा इन्दुः ॥म्स्_३,११।९॥
पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पवित्रेण शतायुषा विश्वम् आयुर् व्यश्नवै ॥
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा सर्वम् आयुर् व्यश्नवै ॥
अग्ना आयूंषि पवसे ॥
पवमानः स्वर् जनः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूता मा जातवेदः पुनाहि मा ॥
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनाहि विश्वतः ॥
पवित्रेण पुनाहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूंर् अनु ॥
यत् ते पवित्रम् अर्चिष्य् अग्ने विततम् अन्तरा ।
ब्रह्म तेन पुनीमहे ॥
वैश्वदेवी पुनती देव्य् आगाद् यस्या बह्व्यस् तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणाम् ॥
वैश्वानरो रश्मिभिर् मा पुनातु वातः प्राणेनेषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिर् ऋतावरी यज्ञिये मा पुनीताम् ॥
बृहद्भिः सवितस् त्रिभिर् वर्षिष्ठैर् देव मन्मभिः ।
अग्ने दक्षैः पुनीमहे ॥
ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर् मयि कल्पताम् अस्मिंल् लोके शतं समाः ॥
द्वे स्रुती ॥
इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये ।
आत्मसनि प्रजासनि क्षेत्रसनि पशुसनि लोकसन्य् अभयसनि ॥
अग्निः प्रजां बहुलां मे कृणोत्व् अन्नं पयो रेतो अस्मासु धेहि ॥
यद् देवा देवहेडनं देवासश् चकृमा वयम् ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
यदि स्वपन् यदि जाग्रद् एनांसि चकृमा वयम् ।
वायुर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
यदि दिवा यदि नक्तम् एनांसि चकृमा वयम् ।
सूर्यो मा तस्माद् एनसो विश्वान् मुञ्चत्व् अंहसः ॥
धाम्नोधाम्नो ॥
यद् ग्रामे ॥
पवित्रम् असि यज्ञस्य पवित्रं यजमानस्य ।
तन् मा पुनातु सर्वतो विश्वस्माद् देवकिल्बिषात् सर्वस्माद् देवकिल्बिषात् ॥
द्रुपदाद् इवेन् मुमुचानः स्विन्नः स्नात्वी मलाद् इव ।
पूतं पवित्रेणेवाज्यं विश्वे मुञ्चन्तु मैनसः ॥
समावृतत् पृथिवी सम् उषाः सम् उ सूर्यः ।