०६

इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥म्स्_३,११।६॥

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वान् यो नर्यो अप्स्व् अन्तरा सुषाव सोमम् अद्रिभिः ॥

सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व ॥

पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥

वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥

वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥

ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥

कुविद् अङ्ग नाना हि वाम् ॥

या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणं सिंहं सेमं पात्व् अंहसः ॥

सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥

यस् ते रसः सम्भृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीम् अश्विना इन्द्रम् अग्निम् ॥

यम् अश्विना नमुचेर् आसुराद् अधि सरस्वत्य् असुनोद् इन्द्रियाय ।
इमं तं शुक्रं मधुमन्तम् इन्दुं सोमं राजानम् इह भक्षयामि ॥

यद् अत्र शिष्टं रसिनः सुतस्य यम् अस्येन्दो अपिबञ् शचीभिः ।