०५

देवं बर्हिः सरस्वती सुदेवम् इन्द्रायाश्विना तेजो न चक्षुर् अक्षोर् बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवीर् द्वारो अश्विना भिषजेन्द्रं सरस्वती प्राणान् न वीर्यं नसि द्वारो दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देवी उषासा अश्विना सुत्रामेन्द्रं सरस्वती बलं न वाचम् आस्ये उषाभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी जोष्ट्री सरस्वत्य् अश्विनेन्द्रम् अवधयन् श्रोत्रं न कर्णयोर् यशो जोष्ट्रीभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवी ऊर्जाहुती दुघे सुदुघेन्द्रं सरस्वत्य् अश्विना भिषजावतं शुक्रं न ज्योतिः स्तनयोर् आहुती धत्त इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवा देवानां भिषजा होतारा इन्द्रम् अश्विना वषट्कारैः सरस्वती त्विषिं न हृदये मतिं होतृभ्यां दधुर् इन्द्रियं वसुवने वसुधेयस्य वीतां यज देवीस् तिस्रस् तिस्रो देवीर् अश्विनेडा सरस्वती शूषं न मध्ये नाभ्या इन्द्राय दधुर् इन्द्रियं वसुवने वसुधेयस्य व्यन्तु यज देव इन्द्रो नराशंसस् त्रिवरूथः सरस्वत्याश्विभ्याम् ईयते रथो रेतो न रूपम् अमृतं जनित्रम् इन्द्राय त्वष्टा दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवो देवैर् वनस्पतिर् हिरण्यपर्णो अश्विभ्यां सरस्वत्या सुपिप्पल इन्द्राय पच्यते मध्व् ओजो न जूतिर् वृषभो न भामं वनस्पतिर् नो दधद् इन्द्रियाणि वसुवने वसुधेयस्य वेतु यज देवं बर्हिर् वारितीनाम् अध्वरे स्तीर्णम् अश्विभ्याम् ऊर्णम्रदाः सरस्वत्या स्योनम् इन्द्र ते सद ईशाया मन्युं राजानं बर्हिषा दधुर् इन्द्रियं वसुवने वसुधेयस्य वेतु यज देवो अग्निः स्विष्टकृद् देवान् यक्षद् यथायथं होतारा इन्द्रम् अश्विना वाचा वाचं सरस्वतीम् अग्निं सोमं स्विष्टकृत् स्विष्टा इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवो वनस्पतिः स्विष्टा देवा आज्यपाः स्विष्टो अग्निर् अग्निना होता होत्रे स्विष्टकृत् सहो न दधद् इन्द्रियम् ऊर्जम् अपचितिं स्वधां वसुवने वसुधेयस्य वेतु यज ॥म्स्_३,११।५॥
जोष्ट्री : फ़्न् एमेन्देद्। एद्।: ज्ञोष्ट्री।
शुक्रं : फ़्न् एमेन्देद्। एद्।: शक्रं

सोमो राजामृतं सुत ओषधीनाम् अपां रसः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अद्भ्यः सोमं व्यपिबच् छन्दोभिर् हंसः शुचिषत् ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

रेतो मूत्रं विजहाति योनिं प्रविशद् इन्द्रियम् ।
गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धाम् अनृते ऽदधाञ् श्रद्धां सत्ये प्रजापतिः ॥

ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।
इन्द्रस्येन्द्रियम् इदं पयो ऽमृतं मधु ॥

दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।
ऋतेन सत्यम् इन्द्रियं विपानं शुक्रम् अन्धसः ।