समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥म्स्_३,११।३॥
अश्विना हविर् इन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रम् आसुराद् वसु मद्यम् इन्द्राय जभ्रिरे ॥
यम् अश्विना सरस्वती हविषेन्द्रम् अवर्धयन् ।
स बिभेद बलं मद्यं नमुचा आसुरे सचा ॥
तम् इन्द्रं पशवः सचाश्विनोभा सरस्वती ।
दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥
य इन्द्र इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
सविता वरुणो दधद् यजमानाय दाशुषे ।
आदत्त नमुचेर् वसु सुत्रामा बलम् इन्द्रियम् ॥
वरुणः क्षत्रम् इन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञम् आशत ॥
युवं सुरामम् अश्विना नमुचा आसुरे सचा ।
विपिपाना सरस्वतीन्द्रं कर्मस्व् आवत ॥
होता यक्षद् अश्विनौ सरस्वतीम् इन्द्रम् इमे सोमाः सुरामाणश् छागैर् न मेषैर् ऋषभैः सुताः शष्पैर् न तोक्मभिर् लाजैर् महस्वन्तो मदा मासरेण परिस्रुता शुक्राः पयस्वन्तो ऽमृताः प्रस्थिता वो मधुश्च्युतस् तान् अश्विना सरस्वतीन्द्रो जुषन्तां सोम्यं मधु पिबन्तु मदन्तां व्यन्तु होतर् यज पुत्रम् इव पितरा अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
अश्विना गोभिर् इन्द्रियम् अश्वेभिर् वीर्यं बलम् ।
हविषेन्द्रं सरस्वती यजमानम् अवर्धयन् ॥
ता नासत्या सुपेशसा हिरण्यवर्त्तनी नरा ।
सरस्वती हविष्मतीन्द्रं कर्मस्व् अवतु ॥
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुर् इन्द्राय दधुर् इन्द्रियम् ॥
अहाव्य् अग्ने हविर् आस्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिम् अस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
यस्मिन्न् अश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टासा आहुताः ।