होता यक्षत् समिधाग्निम् इडस्पदे ऽश्विनेन्द्रं सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधुशष्पैर् न तेज इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् तनूनपात् सरस्वतीम् अविर् मेषो न भेषजं पथा मधुमद् आभरन्न् अश्विनेन्द्राय वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षन् नराशंसं न नग्नहुं पतिं सुराया भेषजं मेषः सरस्वती भिषग् रथो न चन्द्र्य् अश्विनोर् वपा इन्द्रस्य वीर्यं बदरैर् उपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् इडेडित आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर् मधु लाजैर् न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् णासत्या भिषजाश्विनाश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशा इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वती शुक्रं न ज्योतिर् इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या त्विषिम् इन्द्रेण भेषजं श्येनो न रजसा हृदा पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषं सरस्वती भिषक् सीसेन दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु वीताम् आज्यस्य होतर् यज होता यक्षत् तिस्रो देवीर् न भेषजं त्रयस् त्रिधातवो ऽपसो रूपम् इन्द्रो हिरण्ययम् अश्विनेडा न भारती वाचा सरस्वती महा इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज होता यक्षत् त्वष्टारं रूपकृतं सुपेशसं वृषभं नर्यापसं त्वष्टारम् इन्द्रम् अश्विना भिषजं नः सरस्वतीम् ओजो न जूतिर् इन्द्रियं वृको न रभसो भिषग् यशः सुराया भेषजं श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् वनस्पतिं शमितारं शतक्रतुं भीमं न मन्युं राजानं व्याघ्रं नमसाश्विना भामं सरस्वती भिषग् इन्द्राय दुह इन्द्रियं पयः सोमः परिस्रुता घृतम् मधु वेत्व् आज्यस्य होतर् यज होता यक्षद् अग्निं स्वाहाज्यस्य स्तोकानां स्वाहा मेदसां पृथक् स्वाहा छागम् अश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाहा ऋषभम् इन्द्राय सिंहाय सहस इन्द्रियं स्वाहाग्निं न भेषजै स्वाहा सोमम् इन्द्रियैः स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिं स्वाहा वनस्पतिं प्रियं पाथो न भेषजैः स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्त्व् आज्यस्य होतर् यज ॥म्स्_३,११।२॥
भेषजै : फ़्न् ⟨ भेषजैः
समिद्धो अग्निर् अश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमं सुक्रम् इहेन्द्रियम् ।
तनूपा भिषजा सुते ऽश्विनोभा सरस्वती ।
मध्वा रजांसीन्द्रियम् इन्द्राय पथिभिर् वह ॥
इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।
अधाताम् अश्विना मधु भेषजं भिषजा सुते ॥
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिर् अश्विना इषं सम् ऊर्जं सं रयिं दधुः ॥
अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।
सरस्वती तम् आभरद् बर्हिषेन्द्राय पातवे ॥
कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी उभे दुहे कामान्त् सरस्वती ॥
उषासा नक्तम् अश्विना दिवेन्द्रं सायम् इन्द्रियैः ।
सञ्जानाने सुपेशसा समञ्जाते सरस्वत्या ॥
पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।
दैव्या होतारा भिषजा पातम् इन्द्रं सचा सुते ॥
तिस्रस् त्रेधा सरस्वत्य् अश्विना भारतीडा ।
तीव्रं परिस्रुता सोमम् इन्द्रायासुषुवुर् मदम् ॥
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियं रूपंरूपम् अधुः सुते ॥
ऋतुथेन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालम् अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
गोभिर् न सोमम् अश्विना मासरेण परिस्रुता ।