इति तृतीयकाण्डे पात्नीवन्ता नाम दशमः प्रपाठकः ॥म्स्_३,१०।७॥
समिद्धा इन्द्र उषसाम् अनीके पुरोरुचा पूर्वकृद् वावृधानः ।
त्रिभिर् देवैस् त्रिंशता वज्रबाहुर् जघान वृत्रं वि दुरो ववार ॥
नराशंसः प्रति शूरो मिमानस् तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर् वपावान् मधुना समञ्जन् हिरण्यैश् चन्द्री यजति प्रचेताः ॥
इडितो देवैर् हरिवां अभिष्टिर् आजुह्वानो हविषा शर्धमानः ।
पुरन्दरो गोत्रभृद् वज्रबाहुर् आयातु यज्ञम् उप नो जुषाणः ॥
जुषाणो बर्हिर् हरिवान् ना इन्द्रः प्राचीनं सीदात् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानं स्योनम् आदित्यैर् अक्तं वसुभिः सजोषाः ॥
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्ति जनयः सुपत्नीः ।
द्वारो देवीर् अभितो विश्रयन्तां सुवीरा वीरं प्रथमाना महोभिः ॥
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरम् इन्द्रम् ।
पेशस्वती तन्तुना संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
दैव्या मिमाना मनसा पुरुत्रा होतारा इन्द्रं प्रथमा सुवाचा ।
मूर्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर् हविषा वृधातः ॥
तिस्रो देवीर् हविषा वर्धमाना इन्द्रं जुषाणा वृषणं न पत्नीः ।
अछिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
त्वष्टा दधद् इन्द्राय शुष्मम् अपाको ऽचिष्टुर् यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य समनक्तु देवान् ॥
वनस्पतिर् अवसृष्टो न पाशैस् त्मन्या समञ्जञ् शमिता न देवः ।
इन्द्रस्य हव्यैर् जठरं पृणानः स्वदातु हव्यं मधुना घृतेन ॥
स्तोकानाम् इन्दुं प्रति शूरा इन्द्रो वृषायमाणो वृषभस् तुराषाट् ।