०६

मित्रावरुणयोः पयस्या ॥ इति प्राणापानौ वै मित्रावरुणौ प्राणापानाभ्याम् एव सायुज्यम् अगछत् ततो देवा अभवन् परासुरास् तद् य एवं वेदैतैर् एवेन्द्रियैर् वीर्यैर् एतैर् महिमभिः सायुज्यं गछति भवत्य् आत्मना परास्य भ्रातृव्यो भवति दीर्घजिह्वी वै देवानां प्रातःसवनम् अवालेट् तद् व्यमाद्यत् सा पयस्याभवत् तस्मात् पयस्या विमदितरूपेव मैत्रावरुणी प्रातःसवने स्यात् प्राणापानौ वै मित्रावरुणौ प्राणापानौ वा एतन् मुखतो यज्ञस्य धीयेते न गुदः पर्याकर्तवै यद् गुदं पर्याकुर्याद् उदावर्तः प्रजा हन्याद् रक्षसाम् अनन्ववजयाय यूपः पुरस्तान् मीयते यद् अग्रेण यूपं पशुं हरेयुस् तद् अनु रक्षांसि यज्ञम् अवजयेयुर् अन्तराग्निं च यूपं च हृत्यो रक्षसाम् अनन्ववजयाय ॥म्स्_३,१०।६॥

समुद्रं गछ स्वाहेत्य् अपस्थं वा एतद् यजत्य् अन्तरिक्षं गछ स्वाहेति रेत एवैतद् दधाति देवं सवितारं गछ स्वाहेत्य् आह प्रसूत्या एवाहोरात्रे गछ स्वाहेत्य् अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते मित्रावरुणौ गछ स्वाहेति प्राणापानौ वै मित्रावरुणौ प्राणापाना एवासु दधाति द्यावापृथिवी गछ स्वाहेत्य् आभ्याम् एवैनाः सृष्टाः परिगृह्णाति छन्दांसि गछ स्वाहेति वाग् वै छन्दांसि वाचम् एवासु दधाति सोमं गछ स्वाहेत्य् अन्नं वै सोमो ऽन्नम् एवासु दधाति यज्ञं गछ स्वाहेति यज्ञिया एवैना अकर् दिव्यं नभो गछ स्वाहेति वृष्टिम् एवाभ्यो निनयन्त्य् अग्निं वैश्वानरं गछ स्वेहेति संवत्सरो वा अग्निर् वैश्वानरः संवत्सर एवैनाः प्रतिष्ठापयति संवत्सरायुषम् एनाः करोति मनो हार्दिं यछेत्य् आह प्राणानां गोपीथायौषधीभ्यस् त्वेत्य् ओषधीष्व् एव रसं दधाति यो वै विद्वान् वाविद्वान् वोपयजो मिथुनयोप यजति प्राणान् वा एतन् मिथुनयाकुरुते यद् आह मनो हार्दिं यछेति प्राणान् वा एतद् ऋतुशः कल्पयते पशुर् वा आलब्धः शोचति तस्य मध्यं शुग् अभिसमेति सा हृदयेष्व् आगछति यत् पुरुषम् उपस्पृशेन् मनुष्याञ् शुग् ऋछेद् यद् गाम् उपस्पृशेत् पशूञ् शुग् ऋछेद् यद् दारूपस्पृशेद् वनस्पतीं शुग् ऋछेद् यत् तृणम् उपस्पृशेद् ओषधीः शुग् ऋछेद् यद् उदकम् उपस्पृशेद् अपः शुग् ऋछेद् यद् आर्द्रम् अनूदकं तञ् शान्तं तत्रोपोप्यं तद् देवतां शुचम् अवयजति ॥