ये केचार्वाचीनम् एकादशिन्याः पशवस् तान् उत्तरम् अर्धं यूपस्य नियुञ्ज्याद् रौद्रा वै पशवो ऽग्निर् विधृतिर् दक्षिणे हविर्धाने सोमम् आसादयन्ति तथास्य रुद्रः पशून् अनभिमानुको भवति पात्रेषु वा अहम् अध्वर्युं चानध्वर्युं च विजानामीति ह स्माहारुण औपवेशिः कति पात्राणीति पृछेद् द्वादश पात्राण्य् उपांशुसवनस् त्रयोदशं यत् तन् मीमांसन्ते पात्रा३ं न पात्रा३म् इति मीमांसन्ते हि त्रयोदशं मासं मासा३ न मासा३ इति पञ्च प्रातःसवने पुरोडाशाश् चत्वारो माध्यन्दिने सवने चत्वारस् तृतीयसवने इतो वा एतां निरमिमीत प्रजापतिर् आत्मन एव यत एवैतां निरमिमीत तद् एतैर् अपिधीयते देवाश् च वा असुराश् चास्पर्धन्तायतनवन्तो ऽसुरा आसन्न् अनयतना देवा इमे लोका असुराणाम् आयतनम् आसंस् ते देवाः संस्तम्भंसंस्तम्भं पराजयन्तानायतना ह्य् आसंस् ते वै सवनान्य् एवायतनम् अचायंस् तानि प्राविशंस् तानि नाध्रियन्त ते वै पुरोडाशान् एव सवनानाम् आयतनम् अचायंस् तान् निरवपंस् तान्य् अध्रियन्त ततो देवा अभवन् परासुरास् तद् य एवं वेदायतनवान् भवति भवत्य् आत्मना परास्य भ्रातृव्यो भवति तस्माद् अनुसवनं पुरोडाशा निरुप्याः सवनानां धृत्यै तस्माद् अनुसवनं पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्न् अभि खलु वा एतं घारयन्ति यत् प्राश्नीयात् सोमपीथं हन्याद् यन् न प्राश्नीयात् सोमपीथेन व्यृध्येत यत्रानभिघृतं तत् प्राश्यः सोमपीथस्य धृत्यै तन् न सूर्क्ष्यं प्राश्य एवेन्द्रो वै वृत्रम् अहंस् तन् न किं चनाधिनोत् तं पुरोडाश एवाधिनोत् तस्मात् पुरोडाशः प्राश्यः सोमपीथस्य धृत्यै पञ्च प्रातःसवने पुरोडाशाः पुरोडाशः परिवापो धानाः करम्भः पयस्या सा पुरोडाशपङ्क्तिर् द्विनाराशंसाः प्रातःसवने द्विनाराशंसा माध्यन्दिने सवन एकनाराशंसास् तृतीयसवने सा नराशंसपङ्क्तिस् त्रीणि सवनान्य् अवभृथो ऽनुबन्ध्या सवनानां पञ्चमी सा सवनपङ्क्तिर् एषा वै सा पङ्क्तिर् याम् आहुर् ब्रह्मवादिनो वेत्थ तां पङ्क्तिं यया न स्तुवते न शंसन्त्य् अथ यज्ञं वहन्त्य् अथ यज्ञं संस्थापयन्ता इति ॥म्स्_३,१०।५॥
मासा३ : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
देवाश् च वा असुराश् चास्पर्धन्त तेषां वा इन्द्रियाणि वीर्याण्य् अपाक्रामन्न् ऋक्सामे वा एभ्यस् तद् अपाक्रामतां पशवो वाग् इन्द्रियं प्राणापानौ तैर् वा इन्द्रो ऽकामयत सायुज्यं गछेयम् इति ॥
हरिवं इन्द्रो धाना अत्तु ॥ इत्य् ऋक्सामे वा इन्द्रस्य हरी ऋक्सामाभ्याम् एव सायुज्यम् अगछत् ॥
पूषण्वान् करम्भम् ॥ इति पशवो वै पुषा पशुभिर् एव सायुज्यम् अगछत् सरस्वतीवान् भारतीवान् परिवापः ॥ इति वाग् वै सरस्वती वाचैव सायुज्यम् अगछत् ॥
करम्भम् : फ़्न् एद्।: करम्भः। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता, प्। १०९। मित्त्wएदे: करम्भम्।
इन्द्रस्यापूपः ॥ इतीन्द्रियं वा इन्द्र इन्द्रियेणैव सायुज्यम् अगछत् ॥