०४

वसाहोमं प्रयौति रसं वा एतत् प्रयौति स्वधितिना प्रयौत्य् एतेन हीतरेषाम् अङ्गानाम् अवद्यति तत् स्विद् अवदानम् अकर् अथो वज्रेणैवाहुतिम् अवरुन्द्धे यूष एतयान्वितं शमयत्य् ऊर्ग् वै रसो यूर् ऊर्जा वा एतद् रसेन पशुं समर्धयत्य् अथो यावान् एव पशुस् तस्मिन्त् सन्दधाति पार्श्वेनापिदधात्य् ऊर्जः परिगृहीत्यै हतो वा एष मृतो ऽमुत्र भूतो यत् पशुं सम्मृशति पुनर् एवैनं सम्भावयति हव्यं पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयितव्यम् इत्य् आहुर् यद् आहुतीर् हुत्वा पशुं सम्मृशति हव्यं वा एतत् पूर्वं देवता गमयित्वाथ शरीरम् अन्वारोहयत्य् अर्धऋचे जुहोतीयं वा अर्धऋचो ऽसा अर्धऋचो ऽन्तरेमे अन्तरिक्षम् अन्तरिक्षम् इमाः प्रजाः प्रजास्व् एव रसं दधाति वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति प्राणापानौ वै पृषदाज्यम् आत्मा हविर् यत् पृषदाज्यं जुहोत्य् आत्मन् वा एतत् पशोः प्राणापानौ दधाति दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनक्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते ऽध्यूध्नीं होत्रे हरन्ति वैश्वदेवो वै होता वैश्वदेवीर् इमाः प्रजा ऊधः खलु वै प्रजा अनूपजीवन्ति सर्वा एवैनाः पयस्विनीः करोति गुदेनोपयजति प्राणा वै गुदः प्राणाद् अधि प्रजाः प्रजायन्ते प्रजननाय स्थविमत उपयजति स्थविमतो हि प्रजाः प्रजायन्ते यद् अणिमत उपयजेत् प्रजननम् अपिहन्यात् तस्मात् स्थविमत उपयजत्य् असम्भिन्दन्न् उपयजति प्राणानाम् असम्भेदाय यत् सम्भिन्द्यात् प्राणान्त् सम्भिन्द्याद् यं द्विष्यात् तस्य सम्भिन्द्यात् प्राणान् अस्य सम्भिनत्ति नोपयज्यं यद् उपयजेत् प्राणान् उपयजेत् प्रमायुकः स्यात् तद् आहुर् उपयज्यम् एव प्रजननं वा उपयजो ऽपि ह स प्रजायते य उपयजतीत्य् आभारद्वाजेति ह स्माह शुचिवृक्षो गौपालायनः किं तर्हि प्रजा आसन् यर्हि यज्ञो नानोपयड्भिर् आसीन् न प्रजाः प्राजायन्त नौषधयः फलम् अगृह्णन् यदा वाव यज्ञ उपयड्भिः समभवद् अथ प्रजाः प्राजायन्ताथौषधयः फलम् अगृह्णन्न् एकादश प्रयाजा एकादशानुयाजास् एकादशोपयजस् तत् त्रयस्त्रिंशत् त्रयस्त्रिंशद् देवतास् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्त्य् एतद् वा अस्य पशोर् अनर्वाग् इष्टो ऽनभीष्टो ऽभूद् यास्य मात्रा ताम् एनं गमयति स्वर्ग्यो वै सर्वः पशुर् यद् अन्यत्राहवनीयाज् जुहुयाद् अस्वर्ग्यः स्यात् पशुश्रपणाद् अग्निम् आहरन्ति तेन स्वर्ग्यः सर्वः पशुर् यत एव पूर्वम् अवादात् ततो ऽपरम् अवद्यति तस्मात् समानाद् योनेर् नानारूपाः पशवः प्रजायन्ते यज्ञो वै देवानाम् अत्यनेदत् तं देवा उपयड्भिर् अप्यवपन्न् अनतिनेदाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिवपन्त्य् अनतिनेदाय यदाथा वै पुरुषः प्रत्यङ् छिद्र एवं यज्ञः प्रत्यङ् छिद्रस् तं देवा उपयड्भिर् अप्यदधुर् अछिद्रत्वाय यद् एता उपयजो भवन्ति यज्ञम् एवैताभिर् अपिदधात्य् अछिद्रत्वाय ॥म्स्_३,१०।४॥