हृदयस्यावद्यति मनस एव तेनावद्यत्य् अथो यावान् एव पशुस् तस्यावत्तं भवति जिह्वाया अवद्यति वाच एव तेनावद्यत्य् अथो एतया ह्य् अग्रा ओषधीनां रसं प्राश्नाति श्येनस्यावद्यति वक्षस एव तेनावद्यत्य् अथो अत्र हि स रसः प्रतितिष्ठति दोष्णो ऽवदाय पार्श्वयोर् अवद्यति यज्ञस्य परिगृहीत्यै यक्नो ऽवद्यति मध्यस्यैव तेनावद्यति मतस्नयोर् अवद्यति रूपस्यैव तेनावद्यति श्रोण्या अवदाय गुदस्यावद्यति तद् उत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् यद् अन्यस्योत्तरस्यावद्येत् प्राणम् अस्यापिदध्यात् प्रमायुकः स्यात् तस्मात् तस्योत्तमस्यावद्यत्य् उत्तमं ह्य् आयुर् हृदयस्यावदाय जिह्वाया अवद्यति यथापूर्वं वा एतत् पशुम् उपैत्य् अथो एवम् अस्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश कृत्वो ऽवद्यति दश वै पशोः प्राणा आत्मैकादशस् तथास्य सर्वस्य पशोर् अवत्तं भवत्य् एकादश वा एतान्य् अवदानानि तानि द्विर्द्विर् अवद्यति तद् द्वाविंशतिस् त्रीणि त्र्यङ्गानि तत् पञ्चविंशतिः पञ्चविंशेन वै स्तोमेन मनुः प्रजा असृजत तन् मनुस्तोमो वा एष प्रजननायैतद् वै सर्वस्य पशोर् अवत्तम् अथ वै प्राणस्यापानस्य व्यानस्य तेषाम् अनवत्तं यत् त्र्यङ्गाणाम् अवद्यति तेनैव प्राणस्यापानस्य व्यानस्य तेषाम् अवत्तं भवति विश्वरूपो वै त्वाष्ट्रः पशून् अभ्यवमत् तस्मात् पशवो विश्वरूपो ऽभिवान्तो वै पशुः पूयितस् तस्मात् पृष्टीनां मज्जा नाद्यः स वा अधस्तान् न प्राप्नोद् एतद् वै जीवं तस्माद् अतो ऽवद्यत्य् अक्ष्णयाङ्गानाम् अवद्यति पशुं वा एतद् आश्रोणयति तस्मात् पशवो ऽक्ष्णयाङ्गानि प्रहरन्तो यन्त्य् आग्नेयो वै सर्वः पशुर् अथ वा उतान्यस्यै देवताया आलभ्यते यद् दोष्णः पूर्वार्धाद् अग्नये ऽवद्यति गुदस्य मध्यतः श्रोण्या जघानतस् तथास्य सर्वस्य पशोर् अग्नये ऽवत्तं भवति त्रेधा गुदं करोति त्रेधा ह्य् एतर्हि पशुस् त्र्यङ्गाणि समवत्तम् अवदानानि यावान् एव पशुस् तस्मिन्न् आयुर् दधाति त्रेधा मेदः करोति मेदोरूपा हि पशवः सर्वाणि वै पशोर् मेद्यतो ऽङ्गानि मेद्यन्ति यावान् एव पशुस् तस्मिन् मेदो रूपं दधाति बहुर्मर्या यज्ञकुणपीति ह स्माह यज्ञवचा राजस्तम्बायनः प्र वा इतो मनुष्याः पशुं च्यावयन्ति नामुत्र गछन्तीति यद् धिरण्यम् अवधाय जुहोति हिरण्यज्योतिषम् एवैनं स्वर्गं लोकं गमयति ॥म्स्_३,१०।३॥
आश्रोणयति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
बहुर्मर्या : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।