०२

पुरुषं वै देवा मेधायालभन्त तस्य मेधो ऽपाक्रामत् सो ऽश्वं प्राविशत् ते ऽश्वम् आलभन्त तस्य मेधो ऽपाक्रामत् स गां प्राविशत् ते गाम् आलभन्त तस्य मेधो ऽपाक्रामत् सो ऽविं प्राविशत् ते ऽविमालभन्त तस्य मेधो ऽपाक्रामत् सो ऽजं प्राविशत् ते ऽजम् आलभन्त तस्य मेधो ऽपाक्रामत् स यवं प्राविशत् ते यवम् आलभन्त तस्य मेधो ऽपाक्रामत् स व्रीहिं प्राविशत् ते व्रीहिम् आलभन्त तं व्रीहा आप्नुवन् यद् व्रीहिमयः पुरोडाशो भवति मध्यतो वा एतत् पशोर् मेधो धीयते सुषिरो वै तर्हि पशुर् यर्हि वपाम् उत्खिदन्ति यद् व्रीहिमयः पुरोडाशो भवत्य् अपिहित्या असुषिरत्वाय द्वादशकपालो भवति द्वादश मासाः संवत्सरः संवत्सरम् अनु पशवः प्रजायन्ते प्रजननायैकादशकपालः कार्य एकादशाक्षरा त्रिष्टुब् ऐन्द्रम् एतच् छन्दो यत् त्रिष्टुब् ऐन्द्राः पशवः पशुष्व् एवास्य पशून् दधाति देवा अन्योन्यस्मै पशुम् आलभं स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति तस्य मेधं प्लाक्षारयन् स प्लक्षो ऽभवत् तत् प्लक्षस्य प्लक्षत्वं क्लोम्नो वै तं हृदयात् प्लाक्षारयंस् तस्माद् एतत् सुषिरं यत् प्लक्षशाखाया अवद्यति मेधाद् एवाध्यवद्यति पृषदाज्यस्योपहत्य परैति ॥ शृतं हविः शमिता ॥ इति शृतत्वाय त्रिर् आह त्रिषत्या हि देवा अथो यथेदं ब्राह्मणेभ्य ओदनं पक्वं प्राहैवं वा एतद् देवेभ्यो हविः शृतं प्राहोत्तरतः परीत्याभिघारयति पशूनाम् अवरुद्ध्यै प्राणापानौ वै पृषदाज्यम् आत्मा हृदयं यत् पृषदाज्येन हृदयम् अनक्ति मध्यतो वा एतत् पशोः प्राणापानौ दधाति सोमस्य वा एतद् बर्हिर् यद् बर्हिर् अथ वा एतत् पशोर् यद् उत्तरबर्हिर् बर्हिः श्रद् वा एतद् धव्यम् अकर् अस्कन्नम् अविक्षुब्धं मे हव्यं देवता गछद् इति देवानां वै सर्वेषां मनांसि गछति पशा आलभ्यमाने मनो वै मनोता यन् मनोताया अन्वाह मनांस्य् एवैषां सम्भावयति हतो वा एष मृतो ऽमुत्र भूतो मनो वै मनोता यन् मनोताया अन्वाह पुनर् एवैनं सम्भावयति ॥म्स्_३,१०।२॥
वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।