०१

विश्वेभ्यो देवेभ्यः स्वाहा ॥ इत्य् उपरिष्टात् तथास्य त उभये ऽवरुद्धा भवन्ति पशोर् वै मार्यमाणस्य प्राणाञ् शुग् ऋछति प्राणान्त् सङ्गृह्य वपाम् उपविसृजेद् अत्मा वपा पशोर् आत्मन्न् एवास्य प्राणान् दधाति दक्षिणस्य पूर्वपदस्यावदेयम् इति ह स्माहुर् दाक्षायणास् तथास्य सर्वस्य पशोर् अवत्तं भवतीति स्वाहोर्ध्वनभसं मारुतं देवं गछतम् इति वपाश्रपणी अनुप्रास्यत्य् ऊर्ध्वनभसो वा एते मारुतस्य भागधेयं तम् एवैनेन गमयतीमे वा एते विषूची अनुप्रास्यत्य् अनयोर् विधृत्यै ॥म्स्_३,१०।१॥
शुग् : फ़्न् एमेन्देद्। एद्।: शग्।