०८

इति तृतीयकाड्णे नवमः प्रपाठकः ॥म्स्_३,९।८॥

पत्नी वै प्रच्यवमानामुष्यादित्यस्य लोकम् अभिप्रच्यवेत हिनस्ति खलु वा एष तं यो ऽस्य लोकम् अभिप्रच्यवते यद् आह नमस् त आतानेत्य् अमुष्मा एव नमो ऽकर् अनर्वाक् प्रेहीत्य् अनेनाः प्रेथीति वा एतद् आह यजमानाय घृतस्य कुल्याम् अनु सह रायस्पोषेणेत्य् आशिषम् एवाशास्ते देवीर् आपः शुद्धा यूयं देवान् युयुध्वम् इत्य् अपो वा एतद् भूषन्ति पूताभिर् आभिः पूताश् चरन्ति तस्माद् वा एतां बहु रिप्रम् अमेध्यं चरन्तीम् आपो न हिंसन्ति हतो वा एष मृतो ऽमुत्र भूतो ऽद्भ्यो वै प्रजाः प्रजायन्ते पत्नी प्रजनयति यद् अद्भिर् अभिषिञ्चति पुनर् एवैनं प्रजनयति सर्वान् प्राणान्त् सम्मृशति सर्वाण्य् अङ्गान्य् एतावान् हि पशुः पशोर् वै मार्यमाणस्य प्राणाञ् शुग् ऋछति यद् आह वाचम् अस्य मा हिंसीः प्राणम् अस्य मा हिंसीर् इत्य् अद्भिर् वावास्यैतत् प्राणाञ् शुचो मुञ्चति यत् ते क्रूरं यद् आस्थितं तद् एतेन शुन्धस्व देवेभ्यः शुम्भस्वेति यद् एवास्य गमयन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तञ् शमयति ये वा एते स्तोका अवपद्यन्ते त इमाम् अशान्ता ऋछन्ति तत इमाञ् शुग् ऋछति यद् आह शम् अद्भ्य इति शमयत्य् एव शान्ता एवेमाम् ऋछन्त्य् अहिंसायय् ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिर् वज्राद् वावास्मा एतद् अन्तर्दधात्य् अहिंसायै सर्वाभ्यो वै देवताभ्यः पशुर् आलभ्यते यद् आह रक्षसां भागो ऽसीत्य् एतेन वा एतद् भागधेयेन रक्षांसि पशोर् निर्भजतीदम् अहं रक्षो ऽवबाध इदम् अहं रक्षो ऽधमं तमो नयामीत्य् आह रक्षसां ध्वरायै रक्षसाम् अन्तरित्यै पशवो वै वपा यद् उपतृन्द्यात् पशून् हिंस्याद् यन् नोपतृन्द्याद् अयताः स्युर् यत्र तन्निष्ठं तद् उपतृन्द्यात् पशूनां यत्यईषे त्वोर्जे त्वेतीषे ह्य् एषोर्जे ह्य् एषा देवेभ्यः शुन्धस्व देवेभ्य्ः शुम्भस्वेति देवेभ्य एवैनां शुन्धति देवेभ्यः शुम्भति घृतेन द्यावापृथिवी प्रोर्णुवाताम् इति घृतेनैव द्यावापृथिवी प्रोर्णौत्य् अमुष्मै त्वा जुष्टम् इति यस्या एव देवतायै पशुर् आलभ्यते तस्या एनं जुष्टम् अकर् नमः सूर्यस्य सन्दृशा इत्य् अमुष्मा एव नमो ऽकर् इत्थं पर्यावर्तत एवं हि यज्ञः पर्य् आवर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तत उर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि रक्षांसि वा एतं जिघांसन्ति प्रच्युतम् इतो ऽप्राप्तम् अमुत्र कार्ष्मर्यमयी वपाश्रपणी भवतो रक्षसामपहत्यै यस्मा एवामुतो ऽग्निं पुरस्ताद् धरन्ति तस्मा इतो देवता वा एतद् धव्यम् अनुपर्यावर्तमानम् एति चरमत उपप्रतिगृह्णात्य् अछम्बट्काराय यद् अतिहरेद् एतम् एवातिहरेद् विश्वतोमुखो ह्य् अग्निः प्रत्युष्टं रक्षः प्रत्युष्टारातिर् इत्य् आह रक्षसां ध्वरायै रक्षामन्तरित्यै वायोः स्तोकानाम् इति तृणम् उपास्यति स्तोकानां विधृत्यै वायुर् ह्य् एतान् अमुतो विसृजति प्रजानां कॢप्त्यय् अग्रं वा एतद् धव्यस्याग्रम् ओषधीनाम् अग्रेणैवाग्रं समर्धयत्य् अथो अग्राय वा एतद् धव्यस्याग्रम् ओषधीनाम् इध्मं चिनोति हविषो वा एते स्तोकाः स्कन्दति वा एतद् धविर् यद् विश्चोतति यद् विलिप्यते यद् आह जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
हव्या जुह्वान आसनि ॥
तं : फ़्न् एमेन्देद्। एद्।: तम्।
यूयं : फ़्न् एमेन्देद्। एद्।: यूय। च्फ़्। म्स्।१।२।१६:२६।६।

इति तेनैवास्य ते हुता अस्कन्ना वषट्कृता भवन्ति नानादेवत्या वा एकादशिन्यां पशवा आलभ्यन्ते ऽथात्राग्नेयी प्रथमानूच्यते ऽग्निर् वै सर्वा देवता अत्र वै सापि देवता यस्या आलभ्यते ताम् एवैनद् गमयति यर्हि लोहिनीव शृता तर्हि रौद्री यत् तर्हि जुहुयाद् रुद्रायास्य पशून् अपिदध्याद् यर्हि श्येनीवा शृता तर्ह्य् आग्नेयी तर्हि होतव्या तथास्य रुद्रः पशून् अनभिमानुको भवति क्रव्यं वा एतर्हि पशुर् यर्ह्य् आशृतो यद् वपाम् अभिघार्य पृषडाज्यम् अभिघारयेद् रुद्रायास्य पशून् अपिदध्याद् अथ यत् पृषदाज्यम् अभिघार्य वपाम् अभिघारयति यथापूर्वं वा एतत् पशुम् उपैत्य् अथो एवम् अस्य रुद्रः पशून् अनभिमानुको भवति पुरस्तात्स्वाहाकारा वा अन्ये देवा उपरिष्टात्स्वाहाकारा अन्ये त उभये ऽश्ये मेध्ये ऽवरुध्यन्ते ॥

स्वाहा देवेभ्यः ॥ इति पुरस्ताद् वपाया जुहुयात् ॥