अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजयन् यत् पर्यग्निं करोत्य् अग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अभिजयति रक्षांसि वा एतं जिघांसन्ति यत् पर्यग्निं करोति रक्षसाम् अपहत्यै त्रिः पर्यग्निं करोति त्रयो वा इमे लोका एभ्यो वा एतल् लोकेभ्यो यज्ञाद् रक्षांस्य् अपहन्ति चात्वालम् अपि पर्येत्य् एषा वा अग्नीनां योनिः स्कन्दति वा एतद् धविर् यद् विश्चोतति यद् विलिप्यते ऽग्निर् वै सर्वा देवता अत्र वै सापि देवता यस्या आलभ्यते यत् पर्यग्निं करोति ताम् एवैनद् गमयति कियद् वाहैतत् पशोः कियद् वा यत् प्रयाजा एतर्हि खलु वै सर्वो यर्ह्य् आप्रीतस् तस्माद् आश्राव्योपप्रेष्यति देवताभ्यो वै पूर्वम् आशुश्रवद् अथ वा अत्र पशोर् आश्रावयति तस्माद् आश्राव्योपप्रेष्यत्य् उभये वा एतं बध्यमानम् अनुबध्यन्ते ये ग्राम्याः पशवो ये चारण्या ये बध्यमानम् अनु बध्यमाना अन्वैक्षन्त मनसेति यज् जुहोति तेषां वा एषोन्मोक्षा यन् न जुहुयाद् अनुन्मुक्ताः स्युर् उर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि रक्षांसि वा एतं जिघांसन्ति प्रच्युतम् इतो ऽप्राप्तम् अमुत्राग्निं पुरस्ताद् धरन्ति रक्षसां पराणुत्त्यै रक्षसाम् अपहत्यय् अथो हव्याय वा एतत् प्रणीयमानाय देवताः पुरस्ताद् धरन्त्य् अग्निं पुरस्तान् निदधात्य् अस्कन्नत्वाय पशोर् वै मारणायानीयमानस्याहवनीयं मेध्यो ऽभ्युपक्रामति यो वै तर्हि पशुम् अन्वारभते तं यज्ञस्याशीर् गछति यद् आह रेवति प्रेधा यज्ञपतिम् आविशेति यत्र वा एतत् क्वच यजमानं सन्तं यज्ञस्याशीर् गछति वपाश्रपणीभ्याम् अन्वारभते तत् स्विद् उभयम् अकर् उरो अन्तरिक्ष सजूर् देवेन वातेनेत्य् अन्तरिक्षं वै पशवो वातः प्राणः प्राणान् अस्मिन् दधाति त्मनास्य हविषो यजेति देवता एव प्रीणाति सम् अस्य तन्वा भवेति पुनर् एवैनं सम्भावयति वर्षीयो वर्षीयसा इति तेन यजमानो वसीयान् भवति यद् यज्ञं पशुम् आहुर् यत् तम् अभिमन्यन्ते क्व तर्हि यज्ञो भवतीति यद् आह यज्ञं यज्ञपतौ धा इति यज्ञपतौ वा एतद् यज्ञं प्रतिष्ठाप्याथ पशुम् आलभन्ते स्कन्दति वा एतद् धविर् यद् विश्चोतति यद् विलिप्यते यत् तृणम् उपास्यत्य् अस्कन्नत्वाय प्रत्यञ्चं सञ्ज्ञपयन्ति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठन्त उदीचीनपादं व्यावृत्त्यै ॥म्स्_३,९।७॥
आश्राव्योपप्रेष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
आश्राव्योपप्रेष्यति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
ऋत्विजो वृणीते छन्दांसि वा ऋत्विजश् छन्दांसि वा एतद् वृणीते यद् धोतारं वृणीते जगतीं तद् वृणीते यद् अध्वर्युं पङ्क्तिं तद् यद् अग्नीधम् अतिछन्दसं तद् यन् मैत्रावरुणं गायत्रीं तद् यद् ब्राह्मणाञ्शंसिनं त्रिष्टुभं तद् यत् पोतारम् उष्णिहं तद् यन् नेष्टारं ककुभं तद् यद् आह ॥
अग्निर् दैवीनां विशां पुरएता ॥ इति यजमानं वा एतद् वृणीते स वृतो वषट्करोति नाछावाकं वृणीते पश्चाजेव वा एषा होत्राः स्वर्ग्या यद् अछावाक्या द्विदेवत्याः शंसति द्विपाद् यजमानः प्रतिष्ठित्यय् अथ यद् अग्नीधं मध्यतो वृणीते तस्माद् अयम् अग्निर् मध्यत ओषधीनां यद् उत्तमः संयजतां संयजति तस्माद् उपरिष्टान् मथ्यमानः प्रजायत एतद् वा अस्य छन्दांसि वृतानि युक्तान्य् अभूवन् यद् अवृता वषट्कुर्युर् भ्रातृव्यं यज्ञस्याशीर् गछेद् अथ यद् वृता वषट्कुर्वन्त्य् एकधा वा एतद् यजमाने यज्ञस्याशीः प्रतितिष्ठति तस्माद् एकः पशोर् वषट्करोत्य् एकं हि वृणुते दश वै पशोर् देवता दशास्मिन् प्राणा यद् दश प्रयाजा या एवास्मिन् देवतास् ता एतद् यजत्य् अथ य एष एकादशो यस्या एव देवतायै पशुर् आलभ्यते ताम् एवैतद् यजत्य् अथ यद् एकादशानुयाजा या एवैतद् देवता अयाक्षीत् ता एतैर् अनुप्रीणाति हतो वा एष मृतो ऽमुत्र भूतो दश वै पशोर् देवता दशास्मिन् प्राणाः प्राणाः खलु वै पशोर् देवता यद् दश प्रयाजाः प्राणान् एवास्य प्रयजत्य् आत्मा वै प्राणानाम् एकादश आत्मा वपा पशोर् यद् एष एकादशः परिशय आत्मा वा एतद् आत्मानं परिशये ऽथ यद् एकादशानुयाजाः प्राणान् अस्मिन् दधाति ॥