०६

अथैता आप्रियः प्रजापतिः प्रजाः सृष्ट्वा रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् आत्मानम् आप्रीणीत यज्ञो वै प्रजापतिर् यद् एता आप्रियो भवन्ति यज्ञम् एवैताभिर् यजमाना आप्रीणीते वपया वै पशोर् देवाः प्रातःसवने स्वर्गं लोकम् आयन् यद् वपया प्रातःसवने चरन्ति वपया वा एतत् पशोर् यजमानः प्रातःसवने स्वर्गं लोकम् एति ते वै स्वर्यन्तो ऽस्थानि शरीराण्य् अधून्वत यद् अङ्गैस् तृतीयसवने चरन्त्य् अस्नां शीरीणां निष्क्रीत्यै पशुं स्नपयन्ति यद् एवास्याभिन्निषण्णं शमलम् अमेध्यं तञ् शुन्धन्ति पशुम् उपाकृत्याग्निं मन्थन्ति पशूनाम् अवरुद्ध्यै द्वौ वै वज्रौ घोरो ऽन्यः शिवो ऽन्यो यः शुष्कः स घोरो य आर्द्रः स शिवो वज्रेण खलु वै वीर्यं क्रियते वर्जं वा एतद् आदत्ते वीर्यायेषे त्वेतीष एवैनम् उपाविर् असीत्य् उप ह्य् एषो ऽवत्य् उपो देवान् दैवीर् विशः प्रागुर् इत्य् एता वै दैवीर् विशो यत् पशवो वह्नय उशिजा इत्य् एते वै वह्नय उशिजो यद् ऋत्विजश् च धिष्ण्याश् च बृहस्पते धारया वसूनीति ब्रह्म वै बृहस्पतिर् ब्रह्मणैवैनां यछति हव्या ते स्वदन्न् इति स्वदितम् एवैनम् आलभते देव त्वष्टर् वसु रणा इति त्वष्टा हि रूपाणि विकरोति रेवतीर् अमेध्यम् इति पशवो वै रेवतीर् यछत्य् एवैनां देवस्य त्वा सवितुः प्रसव इति सवितृप्रसूत एवैनाम् आदत्ते ऽश्विनोर् बाहुभ्याम् इत्य् अश्विनौ वै देवानाम् अध्वर्युः पूष्णो हस्ताभ्याम् इति देवताभिर् एव द्वौ वै पाशौ घोरो ऽन्यः शिवो ऽन्यो यो यज्ञियः स घोरो यो ऽयज्ञियः स शिव ऋतस्य त्वा देवहविः पाशेनेति य एव यज्ञियः पाशस् तेनैनम् आलभते प्रतिमुञ्चामीत्य् अभि हि मनुष्या दधत्य् अमुष्मै त्वा जुष्टम् इति यस्या एव देवतायै पशुर् आलभ्यते तस्या एनं जुष्टम् अकर् धर्षा मानुषा इति मनुष्या हि धारयन्ति शुष्को वा एषो ऽमेध्यो यत् पशुं नियुनक्त्य् उभा एवैनौ मेध्यौ करोति प्रत्यञ्चं नियुनक्ति प्रत्यञ्चो हि पशवो मेधम् उपतिष्ठन्ते प्राणेषु वा एतस्य देवता उपस्थिता यत् पशुं नियुनक्ति प्रतीचीर् एवास्मै देवता नियुनक्त्य् अद्भ्यस् त्वौषधीभ्या इत्य् अद्भ्यो ह्य् एष ओषधीभ्यो जुष्टं प्रोक्षामीति यस्या एव देवतायै पशुर् आलभ्यते तस्या एनं जुष्टम् अकर् अनु त्वा माता मन्यताम् अनु पितेत्य् अनुमत एवैनं मात्रा पित्रा भ्रात्रा सख्यालभते ऽनुमानावह देवान् देवायते यजमानायेति देवताभ्य एवैनं निर्दिशत्य् अपां पेरुर् असीत्य् अपां ह्य् एष पेरुः स्वात्तं सद् धविर् आपो देवीः स्वदन्त्व् इति स्वदितम् एवैनम् आलभते ऽथ यद् उप गृह्णात्य् उप च सिञ्चति सर्वत एवैनं मेधेन समर्धयति सं ते वायुर् वातेन गछताम् इति वातम् एवास्य प्राणम् अन्ववार्छति सं यजत्रैर् अङ्गानीति यज्ञियम् एवैनम् अकः सं यज्ञपतिर् आशिषेति यजमानम् एव यज्ञस्याशिषा समर्धयति शिरो वा आघार आत्मा हविर् यद् आघारम् आघार्यं पशुना समनक्त्य् आत्मन् वा एतञ् शिरो यज्ञस्य प्रतिदधाति वज्रो वै स्वरुर् वज्रः स्वधितिर् यत् स्वधितिनानक्ति वज्रेणैवैनं स्तृणुते याक्ता तया शृतस्यावद्यति हविर्भूता वा एषा हविषैव हविषो ऽवद्यति ॥म्स्_३,९।६॥