०५

साध्या वै देवा आसन्न् अथ वै तर्हि नान्याहुतिर् आसीत् ते देवा अग्निं मथित्वाग्ना अजुहवुस् ते वै तयैवाहुत्या पशून्त् सृष्ट्वाथ पशुम् आलभन्त यद् अग्निं मथित्वाग्नौ जुहोति तया वा एतद् आहुत्या पशून्त् सृष्ट्वाथ पशुम् आलभन्ते ऽथो पशवो वा एतद् आलब्धा यद् देवतां जनयन्त्य् अथो तेज एवास्मै जनयन्त्य् अग्नेर् जनित्रम् असीत्य् आयतनम् इव वा एतत् क्रियते वृषणौ स्था इति रेत एवैतद् दधाति न हि तस्य रेतो धीयते यस्यैतौ न भवत उर्वश्य् असीति वाग् वा उर्वशी पुरूरवा असीति प्राण एव तन् मिथुनम् आयुर् असीति समनक्ति तस्मिन्न् एव मिथुने रेतो दधाति गायत्रम् असि त्रिष्टुब् असि जगद् असीति छन्दोभिर् एवैनं प्रजनयति सावित्रीं प्रथमाम् अन्वाह प्रसूत्यै सवितृप्रसूता हि प्रजाः प्रजायन्ते ऽथ द्यावापृथिवीयाम् अपि हि द्यावापृथिव्योः पशुषु द्यावापृथिवी हि पशवो ऽनुप्रजायन्ते गायत्रीर् अन्वाह गायत्रो ह्य् अग्निर् गायत्रं छन्दो ऽपरिमिता अन्वाहापरिमिता ह्य् अग्नेस् तन्वो ऽग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तस्य समासृप्तस्य भीतस्य यत्र व्यार्ध्यत ततो धूम्नो ऽसृज्यत तस्माद् धूमवती नानूच्या व्यृद्धा हि सा रक्षसाम् अनन्ववजयाय परिधयः परिधीयन्ते यत् समया परिधीन् प्रहरेत् तद् अनु रक्षांसि यज्ञम् अवजयेयुर् अग्रेण परिधयः प्रहृत्या रक्षसाम् अनन्ववजयाय क्रूरम् इव वा एतद् यज्ञे क्रियते यद् अग्ना अग्निं जुह्वति यद् आह भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति शमयत्य् एव शान्त एव प्रह्रियते यजमानस्याहिंसायै स्रुवेणाभिजुहोति सञ्जग्मानाभ्याम् एवाभ्यां भागधेयम् अपिदधाति यः कूटो वाकर्णो वा काणो वा शुष्को वावर्तत तस्य यातयामा स यो ऽपन्नदन् मलं तत् पशूनाम् आग्नेयः पशुर् अग्निष्टोम आलभ्य आग्नेयो ह्य् अग्निष्टोम ऐन्द्राग्नः पशुर् उक्थ्य आलभ्य ऐन्द्राग्नानि ह्य् उक्थ्यान्य् ऐन्द्रो वृष्णिः षोडशिन्य् आलभ्य ऐन्द्रो वै वृष्णिर् ऐन्द्रः षोडशी सारस्वती मेष्य् अतिरात्र आलभ्या वाग् वै सरस्वती वाग् अनुष्टुब् आनुष्टुभी रात्रिर् यज्ञक्रतूनाम् एवैषा व्यावृत्तिर् यथा वै मत्स्यो ऽविचितो जनम् अवधूनुत एवं वा एते प्रजायमाना जनम् अवधून्वते यस् त्वा एतान् एवं वेद तम् एतेनावभून्वते कथं सवनानि पशुमन्ति वेछेति पृछेद् यद् वपया प्रातःसवने चरन्ति तेन प्रातःसवनं पशुमद् यत् पुरोडाशैर् माध्यन्दिने सवने तेन माध्यन्दिनं सवनं पशुमद् यद् अङ्गैस् तृतीयसवने तेन तृतीयसवनं पशुमत् कियता तत् पशोश् चरन्ति यद् वपया चरन्ति कियता तद् यत् पुरोडाशैः कियता तद् यद् अवदानैर् रूपेण तत् पशोश् चरन्ति यद् वपया चरन्त्य् आत्मना तद् यत् पुरोडाशैः शरीरेण तद् यद् अवदानैः कस्मै पशुः प्रत्यङ् नियुज्यत उदङ् प्रणीयते दक्षिणत उपसाद्यते प्राङ् हूयत इति पृछेद् यत् प्रत्यङ् नियुज्यत इमां तेन दिशम् अभिजयति यद् दक्षिणत उपसाद्यत इमां तेन यत् प्राङ् हूयत इमां तेन यद् उदङ् प्रणीयते मनुष्यलोकं तेनाभिजयति यद् दक्षिणत उपसाद्यते पितृलोकं तेन यत् प्राङ् हूयते देवलोकं तेन यद् आहुत्या ऊर्ध्वो धूम उदयते स्वर्गं तेन लोकं यद् इडोपहूतं प्रत्यङ् हरन्तीमं तेन लोकं सर्वा वा इमा दिशः पशुयाज्य् अभिजयति सर्वांल् लोकान् सर्वा एवास्येमा दिशो ऽभिजिता भवन्ति सर्वे लोकाः ॥म्स्_३,९।५॥
मथित्वाग्नौ : फ़्न् एमेन्देद्। एद्।: मथित्वागौ।
धूम्नो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
धूमवती : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
समया : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।