ओषधे त्रायस्वैनम् इत्य् आह त्रात्या एव स्वधिते मैनं हिंसीर् इति वज्रो वै स्वधितिर् वज्राद् वावास्मा एतद् अन्तर्दधात्य् अहिंसायै यो वा एतस्याभिहतस्याग्रे शकलः परापतति तम् अस्य तेजो ऽन्वपक्रामति यत् तं पुनर् आहरति सतेजस्त्वाय प्राञ्चं प्रहापयति मेधम् एवैनम् अनुपर्यावर्तयति वज्रो वै यूपस् तस्माद् वा इमे लोका नीर्यमाणाद् बिभ्यतीश्वरो ह्य् एषो ऽशान्तो नीर्यमाण इमांल् लोकान् हिंसितोर् यद् आह दिवम् अग्रेण मा हिंसीर् अन्तरिक्षं मध्येन पृथिव्याः सम्भव भ्राजं गछेति शमयत्य् एव शान्त एव नीर्यत एषां लोकानाम् अहिंसायै सर्वस्य वा एष मित्रं यो दीक्षितः स एतम् अहिंसीद् ईश्वरा वनस्पतयो ऽपिधिष्ण्यं भविता यद् आव्रश्चने जुहोति पुनर् एवैनं प्रजनयति तस्माद् आव्रश्चनाद् भूयांसः प्रजायन्ते पशुना सम्मितः कार्यो दश वै पशोः प्राणा आत्मैकादशो ऽष्टाश्रयो ब्रह्मणी दशमे आत्मैकादशस् तथा पशुना सम्मितो ऽष्टाश्रिः कार्यो गायत्र्या रूपं गायत्रो हि यूपो गायत्र्या वै पतन्त्या यत्र पर्णं परापतत् ततः पर्णो ऽजायत तस्मात् पर्णमय एतत् खलु वै पर्णस्य सारं यत् खदिरस् तस्माद् खादिर इह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरंस् तस्माज् ज्योतिषो बिल्वो ऽजायत तस्माद् बैल्वो ब्रह्मवर्चसकामेन कार्यो ब्रह्मवर्चसस्य समष्ट्यय् अथो ज्योतिषैव तमस् तरतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एष ब्रह्मचारी चमसाध्वर्युर् आसीद् यो ऽयं हरिणस् तस्य यः सोमपीथ आसीत् स स्वजो ऽभवत् तस्माद् धरिणः स्वजं स्वादति सोमपीथो ह्य् अस्यैष स यत्र चमसं न्यौब्जत् ततो रोहितको ऽजायत तस्माद् रौहीतकस् तस्माद् रोहीतकेरोहीतके स्वजः पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति प्रोक्षत्य् एषां ह्य् एष लोकानां विधृत्यै मीयते त्रिः प्रोक्षति त्रिषत्या हि देवा अथो त्रिपदयैवैनं गायत्र्या प्रौक्षीद् वज्रो वै यूपो ऽन्नं यवो यद् यवमतीभिः प्रोक्षति वज्रेण वा एतद् अन्नं जयति तेजो वै यूप एष खलु वा ओषधीनां तेजो यद् यवस् तस्माद् एतं शिशिरा ओषधयो ऽनुप्राणन्ति यद् यवम् अवास्यति तेजसि वा एतत् तेजो दधाति र्क्षं वा अमेध्यम् आपो हविर् यद् अवसिञ्चति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् अवस्तृणाति मेध्यम् एवैनत् करोति तक्षितो वा एष नग्नो यञ् शकम् अवास्यत्य् अनग्नम् एवैनम् अकः स्व एवैनं स्थाने दधात्य् अवृक्ण एवाभूद् घृतेन द्यावापृथिवी आपृणेति तेनैव द्यावापृथिवी आपूरयति यजमानो वा अग्निष्ठास् तेजो घृतम् आन्तम् अविछिन्नम् अनक्ति यजमानम् एव तेजसानक्ति देवस् त्वा सविता मध्वानक्त्व् इत्य् एतद् वै देवानां मधु यद् घृतं सवितृप्रसूत एवैनं मध्वानक्तीन्द्रस्य चषालम् असीत्य् ऐन्द्रं हि चषालं सुपिप्पला ओषधीस् कृधीत्य् ओषधीर् एव फलं ग्राहयति तस्माद् ओषधयः शीर्षन् फलं गृह्णन्ति दिवम् अग्रेणोत्तभानान्तरिक्षं मध्येनापृण पृथिवीम् उपरेण दृंहेत्य् एषां ह्य् एष लोकानां विधृत्यै मीयते ता ते धामान्य् उश्मसि गमध्या इत्य् अवदधाति वैष्णव्या वैष्णवो हि यूपः स्वयैव देवतया विष्णोः कर्माणि पश्यतेति सङ्कल्पयति सम्मितत्वाय ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीत्य् आशीर् एवैषा ब्रह्म दृम्ह क्षत्रं दृंहेत्य् आशिष एवैष परिग्रहो ऽपो ऽनुपरिषिञ्चति धृत्यै ॥म्स्_३,९।३॥
रोहीतकेरोहीतके : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
यवमतीभिः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अग्निष्ठास् : फ़्न् अग्निष्ठा। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता। प्।२६।
वज्रो वै यूपो यद् अन्तर्वेदि मिनुयान् निर्दहेद् यद् बहिर्वेद्य् अनवरुद्धः स्याद् अर्धम् अन्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अवरुद्धो ह भवति न निर्दहति नोपरस्याविः कर्तवै यद् उपरस्याविः कुर्याद् गर्तेष्ठाः स्यात् प्रमायुको यजमानो नातिस्थूलः कार्यः क्षुधं प्रजा नीयुर् नो अत्यणुर् उभयम् एवान्तरा यज्ञेन वै देवाः स्वर्गं लोकम् आयंस् ते ऽमन्यन्तानेन वै नो ऽन्ये लोकम् अन्वारोक्ष्यन्तीति तं यूपेनायोपयंस् तद् यूपस्य यूपत्वं यद् यूपः पुरस्तान् मीयते स्वर्गस्य लोकस्यानुक्शात्यै तद् विष्णोः परमं पदम् इति समुन्मार्ष्टि स्वर्गस्य लोकस्य समष्ट्यै नाभिदघ्ने परिव्ययत्य् ऊर्ग् वा ओषधय ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च यदि कामयेत क्षुधं प्रजा नीयुर् इत्य् अरशनान् यूपान् मिनुयात् क्षुधं प्रजा नियन्ति यदि कामयेत वर्षेत् पर्जन्य ऊर्जा यजमानं समर्धयेयम् इति परिवीयोर्ध्वाम् उदूहेद् वृष्ट्या एवेमां न्यूहत्य् ऊर्जा यजमानं समर्धयति यदि कामयेत न वषेत् पर्जन्य ऊर्जा यजमानं व्यर्धयेयम् इति परिवीयावाचीम् अवोहेद् वृष्ट्यैवेमां न्यूहत्य् ऊर्जा यजमानं व्यर्धयति सर्वदेवत्यो वै यूपो यन् निखातं तत् पितृणां यद् ऊर्ध्वं तन् मनुष्याणां यत्र रशना तद् ओषधीनां यद् ऊर्ध्वं रशनायास् तद् विश्वेषां देवानाम् इन्द्रस्य चषालं ये वै देवाः साध्या यज्ञम् अत्यमन्यन्त तेषां वा एतद् यद् उपरिष्टाच् चषालस्याङ्गुलिमात्रं कार्यम् अङ्गुलिमात्रं हि तद् अग्रा आसीद् यत् ततो वर्षीयः कुर्याद् वज्रो भूत्वा यजमानस्य पशून् अवतिष्ठेद् इन्द्रो वै वृत्राय वज्रम् उदयछत् सो ऽव्लीयत तस्य वा एतद् अनुनद्ध्यै यच् चषालं पृथुमात्रं कार्यं पृथुमात्रं हि तद् अग्रा आसीद् यद् अणिमतो ऽगृह्णात् तस्माद् अणिमतो यद् इन्द्र उदयछत् तस्माद् ऐन्द्रं यदि कामयेतान्ये ऽस्य लोकम् अन्वारोहयेयुर् इत्य् अन्यस्य वृक्षस्य स्वरुं कुर्याद् अन्ये ऽस्य लोकम् अन्वारोहन्ति यदि कामयेत प्रजाम् अनुसन्तनुयाद् इति यूपस्य स्वरुं कुर्यात् प्रजाम् एवानुसन्तनोति यजमानो वा अग्निष्ठास् तेजो ऽग्निर् यद् इत्थं वेत्थं वा मिनुयाद् यजमानं तेजसा व्यर्धयेद् अग्निना सदृशं मेतव्या यजमानस्य सतेजस्त्वायावृह्य ह स्म वै पुरा संस्थिते यज्ञे ऽग्नौ यूपं प्रास्यति सम्भज्य स्रुचस् ते देवा अमन्यन्त यज्ञवेशसम् इदं कुर्या इति ते ऽब्रुवन् परिधिभिर् एव नः स्रुचः स्वगाकृताः सन्तु स्वरुणा यूपः प्रस्तरेण सदा इति तेषां वा एष स्वगाकारो न ह स्म वै पुरा पुरुषं महादेवो हन्ति तत इदं रुद्रो ऽन्ववातिष्ठत् ते देवा एतां रुद्रस्यावेष्टिम् अपश्यंस् त्रिः परस्ताद् अनक्ति त्रिर् अवस्तात् तत् षट् षड् वा ऋतव ऋतुभ्यो वा एतद् रुद्रम् अवयजत्य् आहुतिभाजो वा ऋतवो ऽस्तोमभाजस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति यद् यूपाज् जुहोति वनस्पतिभ्यस् तेनावयजति यद् रशनाया ओषधीभ्यस् तेन यद् आत्मनो मनुष्येभ्यस् तेन यद् आह दिवं ते धूमो गछत्व् इति हविर्धानात् तेनान्तरिक्षं ज्योतिर् इत्य् आग्नीध्रात् तेन पृथिवीं भस्म स्वाहेति सदसस् तेन सर्वतो वा एतद् रुद्रम् अवयजत्य् आ वा एतं वनस्पतिभ्यः प्रच्यावयन्त्य् उपयज्य मनुष्याः प्रयन्ति तत् स्वाया देवताया अन्तर्धीयते यूपो वै यज्ञस्य दुरिष्टम् आमुञ्चते यद् यूपम् उपस्पृशेद् यज्ञस्य दुरिष्टम् आमुञ्चेत तस्माद् यूपो नोपस्पृश्यः शुग् वा एष मीयते स ईश्वरो ऽशान्त इमांल् लोकाञ् शुचार्पयितोर् यद्य् एकः स्यात् ॥ एष ते वायो ॥ इति ब्रूयाद् यदि बहवः ॥ एते ते वायो ॥ इति ब्रूयाद् वायूगोपा वै वनस्पतयः स्वाम् एवैभ्यो देवताम् अपिसृजत्य् एषां लोकानाम् अहिंसायै यथा वै प्रौगं रज्जुभिर् व्युतम् एवम् इमे लोका यूपैर् व्युतास् त एनम् आर्तिं निनयन्ति यद् आह ॥ नमः स्वरुभ्यः ॥ इति तेभ्य एव नमो ऽकस् ते ऽस्मै विजिहते ते ऽस्मै लोकं विन्दन्त्य् एते वै देवा नामृडयन् त अस्मिंस् लोके सन्नाः स्वरवो ऽभिरोद्धारो यान् न पश्यति ते सन्ना अथ यान् पश्यति ते बृहन्त ऊर्जा यद् आह ॥ नमः स्वरुभ्यो बृहद्भ्यो मारुतेभ्यः सन्नान् मावगाम् ॥ इति तान् एव परिवृणक्त्य् एते वा अमुष्मिंल् लोके ऽन्नस्य प्रदातारस् ते ऽस्मा अन्नं प्रयछन्ति ॥
गर्तेष्ठाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
मीयते : फ़्न् एमेन्देद्। एद्।: मीयेत
अग्निष्ठास् : फ़्न् अग्निष्ठा। ओएर्तेल्, ज़ुर् कपिष्ठल-कठ-संहिता। प्।२६।
व्युतम् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
व्युतास् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
त : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।