०२

न यूपम् अछैष्यता होतव्यं न हि दीक्षितस्याग्नौ जुह्वति वैष्णवीम् अनूच्याछेत्यो वैष्णवो हि यूपस् तद् आहुर् होतव्यम् एव परुष्य् एव जुहोत्य् आयतना इति तन् न सूर्क्ष्यं यूपस्यैवान्ते ऽग्निं मथित्वाथ होतव्यं तत् स्विद् उभयम् अकर् जुहोत्य् आह न दीक्षितस्याग्नौ जुहोत्य् अत्य् अन्यान् अगां नान्यान् उपागाम् इत्य् अती ह्य् अन्यान् एति नान्यान् उपैत्य् अर्वाक् त्वा परेभ्यः परो ऽवरेभ्यो ऽविदम् इत्य् अर्वाग् घ्य् एनं परेभ्यः परो ऽवरेभ्यो विन्दति तं त्वा जुषामहे देवयज्याया इत्य् एतं ह्य् एष जुषते जुष्टं विष्णवा इति यज्ञायैवैनं जुष्टं विष्णवे ऽकर् विष्णवे त्वेति पर्यनक्ति हविर्भूतम् एवैनं वृश्चत्य् अथो अभिघृतम् एव य इत्थं वेत्थं वा हुर्णो मेधात् सो ऽपावृत्तो य ऋजुर् ऊर्ध्वशल्कः स वाव मेधम् उपस्थितो य ऋजुर् उपरिष्टाद् उपावनतो यो ऽधिशाख्यो योनिः स यो वा अस्या अधिजायते स योनिमान् इयं हि वनस्पतीनां योनिः परुषि व्रश्च्यो यद् अपरुषि वृश्चेद् यथा परुष्य् अवकृत्तम् एवं स्याद् अनक्षमङ्गं स्थाणुर् उञ्शिष्यो यद् अक्षसङ्गं स्थाणुम् उञ्शिंषेद् वज्रो भूत्वा यजमानस्य पशून् प्रतिहन्यात् पञ्चारत्निः कार्यः पङ्क्त्या सम्मितः षडरत्निः कार्या ऋतुभिः सम्मितः सप्तारत्निः कार्यः सप्तपदया शक्वर्या सम्मितो ऽष्टारत्निः कार्यो गायत्र्या सम्मितो नवारत्निः कार्यस् तेजसा त्रिवृता सम्मितो दशारत्निः कार्यो विराजा सम्मित एकादशारत्निः कार्यः त्रिष्टुभा सम्मितो द्वादशारत्निः कार्यो जगत्या सम्मितस् त्रयोदशारत्निः कार्यस् त्रयोदशेन प्रजापतिना सम्मितः पञ्चदशारत्निः कार्यः पञ्चदशेन वज्रेण सम्मितः सप्तदशारत्निः कार्यः सप्तदशेन प्रजापतिना सम्मित एकविंशत्यरत्निः कार्य एकविंशेन सम्मितस् त्रयोविंशत्यरत्निः कार्यस् त्रयोविंशेन सम्मितः पञ्चविंशत्यरत्निः कार्यः पञ्चविंशेन सम्मितः सप्तविंशत्यरत्निः कार्यस् त्रिणवेन सम्मित एकत्रिंशदरत्निः कार्य एकत्रिंशेन सम्मितस् त्रयस्त्रिंशदरत्निः कार्यस् त्रयस्त्रिंशेन सम्मितो यावान् पुरुष ऊर्ध्वबाहुस् तावान् कार्यो यदि वा यावान् रथे तिष्ठन् यावान् वै पुरुष ऊर्ध्वबाहुः सैतस्यावमा मात्राथ ततो वर्षीयान्वर्षीयान् एव कार्यो यो बहुशाखो बहुपर्णः स कार्यो भूम्न एव भूमानं ह्य् एष एतस्य जग्राह भूमानम् अस्य गृह्णाति भूमानम् अस्य पशवो ऽनूपतिष्ठन्ते ॥म्स्_३,९।२॥
हुर्णो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
कार्या : फ़्न् ⟨ कार्यस्
स : फ़्न् एमेन्देद्। एद्।: सु