यज्ञो वा एष सङ्क्रामन्न् एति प्रायणीयाद् अध्य् आतिथ्यम् आतिथ्याद् अध्य् उपसदः स उपसद्भ्यो ऽधि प्राङ् प्रणीयते यद् अगृहीत्वाज्यानि प्रणयेयुर् अपघ्नीत यजमानम् अथ यद् गृहीत्वाज्यानि प्रणयन्ति यज्ञं वा एतद् यजमानो ऽन्वारभते प्राञ्चः सोमेन प्रयन्ति प्राची पत्नी पूर्वम् अग्निम् अभ्युदैति सोमेन वा एतद् राज्ञाभिजयन्तो यन्ति यस्य वै मनुष्यराजो गृहम् आगछति तस्य वै तर्हि तद् ऐश्वर्ये यदा वै स ततः प्लायते ऽथ तेषां तत् पुनर् भवति तस्माद् आहुर् अपिव्रता इत्य् अपि ह्य् एषां तस्मिन् व्रतं सोमो वा एतद् राजा गृहं प्राप तस्य वै तर्हि तद् ऐश्वर्ये यदा वै स ततः प्रच्यवते ऽथ स तत् तेभ्यो विसृजते तद् वैसर्जनानां वैसर्जनत्वं त्वं सोम तनुकृद्भ्या इति यद् एव तनुकृतं चान्यकृतं चैनस् तद् एतेनावयजति द्वाभ्यां गार्हपत्ये जुहोति द्विपाद् यजमानः प्रतिष्ठित्यय् आग्नेय्याग्नीध्रे ऽन्तरिक्षम् एव प्राप्यान्यद् एव रूपम् अकर् वैष्णव्या हविर्धाने ऽद एव प्राप्य विष्णुर् वै यज्ञो विष्णुम् एव यज्ञम् अकर् असुरा वा एतं देवानाम् आदित्सन्त तं देवा अप्तुं कृत्वामुं लोकम् अहरन् यद् अप्तुमत्या जुहोत्य् अप्तुम् एवैनं कृत्वामुं लोकं हरन्ति सर्वेभ्यो वा एष भूतेभ्या आह्रियते यत् सौम्या जुहोति मनुष्येभ्यस् तेनाह्रियते यद् अप्तुमत्या पितृभ्यस् तेन यद् आग्नेय्या देवेभ्यस् तेन यद् वैष्णव्या यज्ञाय तेन सर्वा वा एतत् प्रजा वरुणो गृह्णाति यत् सौम्या जुहोति मनुष्यांस् तेन वरुणान् मुञ्चति यद् अप्तुमत्या पितॄंस् तेन यद् आग्नेय्या देवांस् तेन यद् वैष्णव्या यज्ञं तेन सर्वा वा एतत् प्रजा वरुणान् मुञ्चत्य् अग्निना वै मुखेन देवा इमांल् लोकान् अभ्यजनयन् गार्हपत्येनेमं लोकम् आग्नीध्रेणान्तरिक्षम् आहवनीयेनामुं लोकं तस्मात् त्रेधा अग्नया आधीयन्त एषां लोकानाम् अभिजित्यईन्द्राग्नी वा अपरा अग्नी अग्निर् अपर इन्द्रः पूर्वः प्रजापतिर् आहवनीयस् तस्माद् एष उपोप्ते साद्यत उत्तरो हि पिता पुत्राद् उत्तरो भ्रातृव्याद् भवति य एवं वेदाग्रेण प्रणयेद् गतश्रीः श्रिय एव परिगृहीत्यै सौम्यो वै ब्राह्मणो देवतया स्वयैव देवतया प्रजा वै पशवो ऽंशवो रुद्र आहवनीयो यद् अग्रेण प्रणयेद् रुद्रायास्य पशून् अपिदध्यात् पश्चाद् एव प्राङ् प्रणीयः पशूनां गोपीथायोर्व् अन्तरिक्षं वीहीत्य् अन्तरिक्षदेवत्यो वा एष एतर्हि प्रच्युत इतो ऽप्राप्तो ऽमुत्रादित्याः सदा आसीदेत्य् आदित्यो वै यज्ञो ऽदितिः सोमस्य योनिः स्व एवैनं योनौ दधाति देव सवितर् एष ते सोमा इति मनुष्येषु वा एष पुराभूद् देवेभ्य एवैनं सम्प्रादाद् एतत् त्वं देव सोम देवान् उपावृता इति देवो ह्य् एष देवान् उपावर्तत इदम् अहं मनुष्यान्त् सह रायस्पोषेण प्रजया चोपावर्तता इत्य् आशिषम् एवाशास्ते नमो देवेभ्यः स्वधा पितृभ्या इति नमस्कारो देवानां स्वधाकारः पितृणां निर् वरुणस्य पाशाद् अमुक्षीति वरुणपाशाद् एव निर्मुच्यत आत्मनो ऽहिंसायै स्वर् अभिव्यक्शम् इति यज्ञो वै स्वर् यज्ञम् एवाभिविपश्यति ज्योतिर् वैश्वानरम् इत्य् असौ वा आदित्यो ज्योतिर् वैश्वानरम् अग्निना वा एष तन्वं विपरिधत्ते यो दीक्षते ऽग्नी रुद्रो यद् अग्निना पुनर् यथायथं तन्वं न विपरिदधीत रुद्र एनम् अभिमानुकः स्याद् यद् आहाग्ने व्रतपते या तव तनूर् मय्य् अभूद् एषा सा त्वय्य् अग्ने व्रतपते या मम तनूस् त्वय्य् अभूद् इयं सा मयीत्य् अग्निना वा एतत् पुनर् यथायथं तन्वं विपरिधत्त आत्मनो ऽहिंसायै ॥म्स्_३,९।१॥
गार्हपत्येनेमं : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।