पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेति प्रोक्षत्य् एषा ह्य् एषां लोकानां विधृत्यै मीयते त्रिः प्रोक्षति त्रिषत्या हि देवा अथो त्रयो वा इमे लोका एभ्य एवैनां लोकेभ्यः प्रौक्षीद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवमतीभिः प्रोक्षत्य् ऊर्जा वा एतद् अन्नं समर्धयत्य् ऋक्षं वा अमेध्यम् आपो हविर् यद् अवसिञ्चति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् अवस्तृणाति मेध्यम् एवैनत् करोति पितृदेवत्यं वै निखातम् अमेध्यम् अन्यदेवत्यम् अस्याः खलु वा इमा उत्तमार्ध ओषधयो यद् अवस्तृणात्य् अस्या एवैनाम् उत्तमार्धे मिनोत्य् अनिखातैवाभूद् अन्नं वै यवा ऊर्ग् उदुम्बरो यद् यवम् अवास्यत्य् अन्ने वा एतद् ऊर्जं दधाति न ह्य् अन्नम् ऋत ऊर्जो धिनोति नो ह्य् ऊर्ग् ऋते ऽन्नाद् धिनोति नितानस् त्वा मारुतो निहन्त्व् इति मनो वै नितानः प्राणा मारुता मित्रावरुणौ ध्रुवेण धर्मणेति मित्रम् एवैनां दाधार वरुणः कल्पयति विधृत्यै च खलु वा एषां प्रजानां कॢप्त्यै च मीयते मित्रावरुणौ वै देवानां धर्मधारयौ दैवं वा एतद् धर्मम् अदीधरतां यद् औदुम्बरी ब्रह्मवनिं त्वा क्षत्रवनिं पर्यूहामीत्य् आशीर् एवैषा ब्रह्म दृम्ह क्षत्रं दृंहेत्य् आशिष एवैष परिग्रहो घृतेन द्यावापृथिवी आपृणेति घृतेनैव द्यावापृथिवी व्युनत्त्य् उदरं वै सद ऊर्ग् उदुम्बरो यद् औदुम्बर्य् ऊर्जं वा एतन् मध्यत आत्मनो धत्ते प्रजानां च प्रजापतेर् वा एतद् उदरं यत् सदः प्राजापत्य उद्गाता तस्माद् उद्गातान्वारभते यजमानो वा औदुम्बरी वर्षिष्ठा कार्या वर्ष्मैनं समानानां गमयति विश्वजनस्य छायासीति छदिर् अभिनिदधाति गोत्राद्गोत्राद् धि प्रसर्पन्त्य् उदरं वै सदो यद् अन्येनान्येन सम्मिनोति तस्माद् उदरम् अन्येनान्येनामेन सन्तत उदरं वै सदो यद् अनूचीनं मिनुयात् पराचीनं जग्धम् अतीयाद् अथ यत् तिरश्चीनं मिनोति तस्माज् जग्धं सर्वाण्य् अङ्गान्य् अनुवेति प्रजा वा एतत् समीचीनं मिनोति समीचीर् एनं प्रजा अभिसमावर्तते संयात इव स भवति समानं साङ्काशिनं कार्यं समाना हीमे प्राणा यं द्विष्यात् तस्याक्ष्णया मिनुयात् प्राणान् अस्य मोहयति प्रमायुको भवति यदि कामयेत वर्षेत् पर्जन्या इति नीचैः सदो मिनुयाद् वृष्टिम् एव नियछति यदि कामयेत न वर्षेत् पर्जन्या इत्य् उच्चैः सदो मिनुयाद् वृष्टिम् एवापाग्रहीन् नवछदिर् अग्निष्टोमे स्यात् तेजसा त्रिवृता सम्मितं पञ्चदशछदिर् उक्थ्ये पञ्चदशेन वज्रेण सम्मितं सप्तदशछदिर् अतिरात्रे सप्तदशो वै प्रजापतिः प्राजापत्या रात्रिर् आनुष्टुभी यज्ञक्रतूनाम् एवैषा व्यावृत्तिः प्राचीनवंशं हविर्धानं मिनोत्य् ऊर्ध्वा हि द्यौः प्राचीनवंशम् आग्नीध्रम् ऊर्ध्वं ह्य् अन्तरिक्षं तिरश्चीनवंशं सदस् तिरश्ची हीयं यजुषा हविर्धानं मिनोति निरुक्ता हि द्यौर् यजुषा सदो निरुक्ता हीयम् अयजुषाग्नीध्रम् अनिरुक्तम् इव ह्य् अन्तरिक्षम् अर्धम् आग्नीध्रस्यान्तर्वेदि मिनोत्य् अर्धं बहिर्वेद्य् अर्धं ह्य् अन्तरिक्षस्यास्मिंल् लोके ऽर्धम् अमुष्मिन् ॥म्स्_३,८।९॥
धर्मम् : फ़्न् एमेन्देद्। एद्।: धमम्।
अभिनिदधाति : फ़्न् एमेन्देद्। एद्।: आभनिदधाति।
स : फ़्न् एमेन्देद्। एद्।: स।
सुवाङ् नभ्राड् अङ्घारे बम्भारा इत्य् एते वै देवानां सोमरक्षय एतेभ्यो वा अधि छन्दांसि सोमम् आहरंस् ते सोमपीथेन व्यार्ध्यत त एतानि द्वितीयानि नामान्य् अधत्त मङ्गलेछायै सोमपीथो ना उपनमाद् इति तस्माद् एते द्विनामनस् ते वा अन्वायंस् ते न प्राप्नुवंस् तस्माद् एते ऽतिहाय वषट् क्रियन्ते न हि प्राप्नुवंस् तेषां वा एष लोको यावद् अभि न्युप्यते तद् यो ऽविद्वान् आक्रामत्य् आर्त्तिम् आर्छत्य् अथ य एवं विद्वान् आक्रामति न सदस्याम् आर्त्तिम् आर्छति तेषां वा एष भागो यद् व्याघार्यन्ते त एवास्मै तेनाभीष्टाः प्रीता भवन्ति यज्ञमुखं वै पवमानो यत् पवमाने स्तुते ऽग्नयो विह्रियन्ते यज्ञमुखाद् एवाधिविह्रियन्ते जम्भो वै नामासुर आसीत् स यज्ञम् अगिरत् स आग्नीध्रं न प्राप्नोत् तम् आग्नीध्रात् पुनर् व्यरुजद् एतद् वै जीवं तस्माद् आग्नीध्राद् विह्रियन्ते दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चा आग्नीध्रं समातिष्ठंस् तम् आग्नीध्रात् पुनर् अभ्यजयन्न् एतद् वा अनभिजितं तस्माद् आग्नीध्राद् विह्रियन्त एतत् प्रति वै देवान् असुरा यज्ञम् अजयंस् त आग्नीध्राद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिर् अस्तृणत पराजिज्ञाना वा एतत् सर्पन्ति यद् बहिष्पवमानं स्तोष्यन्तः सर्पन्ति यद् बहिष्पवमाने स्तुत आह ॥
मङ्गलेछायै : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।
अग्नीद् अग्नीन् विहर बर्हिः स्तृणाहि ॥ इत्य् आग्नीध्राद् वा एतद् अधि बहिष्पवमानेन यज्ञम् अभिजित्याग्नीन् आधाय बर्हिः स्तृणते ऽत्र वा एतर्हि यज्ञो यत्रास्तुतं स्तोत्रं यत्रैव यज्ञस् तद् अभिपर्यावृत्य जुहोति शुक्रवती वै पूर्वे सवने अशुक्रं तृतीयं सवनं यज् ज्योतिष्मतीस् तृतीयसवने व्याघारयन्ति तेन तृतीयसवनं शुक्रवत् संवत्सरो वा अग्निष्टोमस् तस्य वा एतास् तन्वो यद् धिष्ण्यास् ता वा अस्यैतत् समुद्धर्षयित्वा ज्योतिष्मतीः कृत्वाथाग्निष्टोमेन स्तुवते संवत्सरो वा अग्निष्टोमो द्वादश मासाः संवत्सरो यत् प्राचीर् आहुतयो हूयन्ते प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते संवत्सरस्य विधृत्यय् उभयतो वै देवान् असुराः परीयत्ता आसन् पुरस्ताद् अन्ये पश्चाद् अन्ये यत् प्राचीर् आहुतयो हूयन्ते ये पुरस्ताद् आसंस् तांस् तेनापानुदन्त यत् प्रत्यञ्चो धिष्ण्या व्याघार्यन्ते ये पश्चाद् आसंस् तांस् तेनापानुदन्त तद् भ्रातृव्यस्य वा एष विनोदो ऽध्वर्युणा वै यज्ञो विधृत इदम् इव वा एतद् यज्ञस्य यद् धिष्ण्या यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयात् प्राणात् सङ्कर्षेत प्रमायुकः स्याद् यद्य् अतीयाद् यज्ञपरुष्य् अतीयाद् ऐन्द्रीम् अनुब्रूयाद् ऐन्द्रं हि सदः स्वयैवैनद् देवतयोपचरत्य् आत्मनो ऽहिंसायै प्राचीनं वै धिष्ण्येभ्यो ऽध्वर्योर् लोको यद् अध्वर्युः प्रत्यङ् धिष्ण्यान् अतीयाद् अन्यजनतास्य क्षेत्रम् अभ्यारोहुका स्यान् न्य् अन्य उप्यन्ते नान्ये तद् एषां मिथुनं प्रजायति निरुक्ता अन्ये ऽनिरुक्ता अन्ये ये निरुक्तास् ते ऽस्मै लोकाय ये ऽनिरुक्तास् ते ऽमुष्मै क्षयाय यथा वा इदं मेखलां पर्यस्यते मेध्यस्य चामेध्यस्य च विधृत्या एवं वा एते न्युप्यन्ते यज्ञस्य विधृत्यै यत् प्राचीनं धिष्ण्येभ्यस् तद् देवानां यत् प्रतीचीनं तन् मनुष्याणां तस्मात् सोमं पिबते प्राञ्चो धिष्ण्या नातिसृपे जनं ह्य् एति देवलोकम् अभ्यारोहति चात्वालाद् विह्रियन्त एष वा अग्नीनां योनिः स्वाद् एव योनेर् विह्रियन्ते ऽस्कन्नत्वाय तेषां वा एतद् अभ्यवायनं चोदयनं च यद् अन्तरा चात्वालं चाग्नीध्रं चैतद् वै यज्ञस्य तीर्थं तस्माद् एतेन सञ्चरति तेन यो ऽविद्वान्त् सञ्चरत्य् आर्तिम् आर्छत्य् अथ य एवं विद्वान्त् सञ्चरति न सदस्याम् आर्तिम् आर्छति ॥
स्तृणाहि : फ़्न् एमेन्देद्। एद्।: स्तृणाति। त्स्।६।३।१।२: स्तृणाहि, श्ब्।४।२।५।११: स्तृणीहि