इहाद्य सोमपीतये ॥ इति य एव देवा यज्ञियास् तान् हविर्धाना आसादयति तां श्वो भूते ऽभियजते दण्डो वा एतद् औपरो वषट्कारेण निरहन् यच् छदिर् अभिनिदधात्य् अपिहित्या अछिद्रत्वाय विष्णोः पृष्ठम् असीत्य् अद एव विष्णो रराटम् असीत्य् अद एव विष्णोः शिप्रे स्था इतीमे एव मुखतो वा एतत् स्वया देवतया शिरो यज्ञस्य सम्भरति विष्णोः स्यूर् असीति तस्माद् इदं शिरः षोढाविष्कृतं प्र तद् विष्णुः स्तवते वीर्येणेति प्राङ् उक्त्रम्य वदत्य् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितिम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ॥म्स्_३,८।७॥