भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा ॥ इति भागधेयं वावैषाम् एतत् प्रीणात्य् एवैनान् अथो हविषा वा एतत् स्कन्नेन द्वितीयाम् आशिषम् अवरुन्द्ध एतद् ध स्म वा आहारुण औपवेशिः किम् उ स यज्ञेन यजेत यो हविषा स्कन्नेन द्वितीयाम् आशिषम् अवरुन्धं न विद्याद् इति तद् द्वितीयाम् एवैतेनाशिषम् अवरुन्द्धे ॥म्स्_३,८।६॥
ये पुरा ग्रन्थयो भवन्ति तान् विस्रंसयन्ति मानुषस्य व्यावृत्त्यै प्रणेनिजति यद् एवैनयोर् अभिनिषण्णं शमलम् अमेध्यं तञ् शुन्धन्ति युञ्जते मन उत युञ्जते धिया इति जुहोति युक्त्या एव सावित्र्या जुहोति सवितृप्रसूते एव प्रवर्तेते हविर् वै हविर्धाने यद् उपानक्ति हविर्भूत एव प्रवर्तेते अथो अभिवृत्ते एव पत्न्य् उपानक्ति यद् वै पत्नी यज्ञे करोति तन् मिथुनं मिथुनत्वाय वै पत्न्य् उपानक्त्य् एष वै पत्न्या यज्ञस्यान्वारम्भो यद् यज्ञे करोत्य् अन्वारम्भाय वै पत्न्य् उपानक्ति प्राचीनम् उपानक्ति प्राङ् हि यज्ञस् त्रिर् अन्यत् त्रिर् अन्यद् उपानक्त्य् अपरिमितं हि मनुष्या उपाञ्जन्ति दक्षिणत उपानक्त्य् उदीची ह्य् एते मनुष्यलोकम् उपावर्तेते निरृतिगृहीतो वा एष उभयतः सन्दष्टः शुष्को यद् उपानक्ति शमयत्य् एव शुष्को वा एष दुर्वाग् यजमानस्य गृहम् आवदति स ईश्वरो ऽशान्तो यजमानं हिंसितोस् तद् अनुगृह्णन्तो यन्ति यद्य् उत्क्ष्वेदेत् सुवाग् आवद देव दुर्यान् इति वदेच् छमयत्य् एवाथो शमयित्वैवाशिषम् आशास्ते हविर् वै हविर्धाने स्तीर्त्वा वै बर्हिर् हविर् आसादयन्ति तस्मात् प्रस्तरं स्तीर्त्वा प्रवर्तयन्ति हविर् वै हविर्धाने अनूच्यमानासु वै सामिधेनीषु हविर् आसादयन्ति तस्मात् प्रवर्त्यमानयोर् होतान्वाहेमे वा एते इमे वा एतत् प्रवर्तयन्ति यद् धविर्धाने तस्मात् पूर्वस्या जनताता अपरा जनता क्षेत्रम् अभ्यारोहुका ते यर्हि प्रवर्तयेयुस् तर्हि होतानुब्रुवन् मनसा पदा तां जनतां प्रतिनुदेद् अप जन्यं भयं नुदेति विड् वा एषा विशं वा एतत् प्रतिनुदते ऽनभ्यवचारुकास्य विट् क्षेत्रं भवति नीयानं वै रक्षांसि यज्ञम् अवयन्ति यद् वर्त्मनि जुहोति रक्षसाम् अपहत्यै वैष्णव्या जुहोति विष्णुर् वै यज्ञो विष्णुनैव यज्ञेन यज्ञाद् रक्षांस्य् अपहन्ति यद् गायत्र्या जुहोतीमां तेनाक्रमते यत् त्रिष्टुभान्तरिक्षं तेनाथ यद् आहवनीयं गछतः स्वर्गं तेन लोकं त्रीन् प्रक्रमान् प्रतिविक्रमते त्रयो वा इमे लोका इमान् एव लोकान् यजमानायोञ्शिंषति वैष्णवम् असि विष्णुस् त्वोत्तभ्नात्व् इति वैष्णवं हि हविर्धानं दिवो विष्ण उत वा पृथिव्या इति दक्षिणस्य हविर्धानस्य मेथीन् निहन्ति मुखत एव यज्ञस्याशिषम् अवरुन्द्धे यम् अध्वर्युः प्रथमं ग्रन्थिं ग्रथ्नाति तं प्रथमं विस्रंसयति यद् अन्यं पूर्वं विस्रंसयेद् अमेहेन प्रमीयेत विष्णोर् नु कं वीर्याणि प्रवोचम् इत्य् उत्तरस्य हविर्धानस्य मेथीन् निहन्ति वैष्णव्या वैष्णवं हि हविर्धानं स्वयैव देवतया यो अस्कभायद् उत्तरं सधस्थम् इत्य् अदो वा उत्तरं सधस्थम् अमुष्मिन्न् एव हविर्धानं सम्मिनोति ॥
आ वाम् उपस्थम् अद्रुहा देवाः सीदन्तु यज्ञियाः ।