यद् वा अस्या यज्ञियं मेध्यं यत् सदेवं तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयतान्त् सिंहीरूपम् इव भूत्वा ते ऽविदुर् यतरान् वा इयम् उपावर्त्स्यति त इदं भविष्यन्तीति तस्यां वा उभय ऐछन्त सा नान्यतरांश्चनोपावर्तत तां देवा अपाशासुर् उप ना आवर्तस्वेति साब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् साब्रवीन् माम् एव पर्वाम् अग्नेर् व्याघारयात् स यत्कामो मां व्याघारयात् तम् एव स कामम् अश्नुवद् इति तां देवाः पूर्वाम् अग्नेर् व्याघारयंस् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतां पूर्वाम् अग्नेर् व्याघारयति भवत्य् आत्मना परास्य भ्रातृव्यो भवति यद् वै तद् उत्क्रम्यातिष्ठद् अन्तरा देवासुरान्त् संयत्तान्त् सिंहीरुपम् इव भूत्वा सा वा उत्तरवेदिस् तप्तायनी मे ऽसीति तप्ता हि ते ताम् अविन्दन्त वित्तायनी मे ऽसीति वित्ता हि ते ताम् अविन्दन्तावतान् मा नाथितम् इति नाथितां हि सा तान् आवद् अवताद् व्यथितम् इति व्यथितां हि सा तान् आवद् एतदेतद् वा एतया देवा असुराणाम् अविन्दन्तैतदेतद् एवैतया यजमानो भ्रातृव्यस्य वृङ्क्ते ऽग्ने अङ्गिरो यो ऽस्यां पृथिव्याम् अध्यसीति य एवैषु त्रिषु लोकेष्व् अग्नयस् तान् एवावरुन्द्धे विदेर् अग्ने नभो नाम यत्ता इति नभो हि नाम सो ऽग्निर् आसीद् जानुदघ्नं खेयमेतावती वा अस्याः पृथिव्या जीवं यज्ञियं तद् एवावरुन्द्धे सिंहीर् असि महिषीर् असीति सिंहीरूपम् इव हि तन् महिषीरूपम् इव भूत्वातिष्ठद् देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेति देवेभ्य एवैनां शुन्धन्ति देवेभ्यः शुम्भन्ति निःसारयति यद् एवास्या उद्घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तन् निःसारयतीन्द्रघोषास् त्वा पुरस्ताद् वसुभिः पान्त्व् इत्य् एतद्देवत्या वा इमा दिशो यथादेवतम् एवैनां प्रौक्षीद् अतो वै देवा असुरान् मनसा विनुद्य स्वर्गं लोकम् आयंस् त एता देवता अन्ततो ऽदधतासुराणाम् अनन्वग्भावायातो वा एतद् यजमानो भ्रातृव्यं मनसा विनुद्य स्वर्गं लोकम् एति स एता देवता अन्ततो धत्ते भ्रातृव्यस्यानन्वग्भावाय ते ऽकामयन्त सपत्नं भ्रातृव्यं सहेमहीति सिंहीर् असि सपत्नसाही स्वाहेति तम् एव तेन कामम् आशुनुवत सपत्नं भ्रातृव्यं साढ्वा ते ऽकामयन्त पशवो नः स्युर् इति सिंहीर् असि रायस्पोषवनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सपत्नं भ्रातृव्यं साढ्वा पशून् भित्त्वा ते ऽकामयन्त प्रजानः स्याद् इति सिंहीर् असि सुप्रजावनिः स्वाहेति तम् एव तेन कामम् आश्नुवत सिंहीर् अस्य् आदित्यवनिः सजातवनिः स्वाहेत्य् आदित्याभिर् हि सा प्रजाभिः सह ते ऽकामयन्त देवा नो यज्ञं विद्युर् इति सिंहीर् अस्य् आवह देवान् देवायते यजमानाय स्वाहेति तम् एव तेन कामम् आश्नुवत भूतेभ्यस् त्वेत्य् उद्दिशति देवा ह्य् एव भूता यत्र वा अदो ऽग्निर् होत्राद् भीषापाक्रामत् स सर्वेषु भूतेष्व् अवसद् यां पशुष्व् अवसत् ताम् अनाछिन्नस्तुकस्यान्तराशृङ्गम् अवसद् यां वनस्पतिषु पूतुद्रौ याम् ओषधीषु तां सुगन्धितेजने यत् सम्भारान्त् सम्भरति यद् एवात्राग्नेर् न्यक्तं तत् सम्भरति यानि वा अदो ऽग्निर् अस्थान्य् अधूनुत स पूतुद्रुर् अभवद् यन् मांसं तद् गुग्गुलु यत् पूयितम् उपश्लिष्टं स सुगन्धितेजनो यद् एते सम्भारा भवन्ति यद् एवात्राग्नेर् न्यक्तं तस्यावरुद्ध्यै विश्वायुर् असि पृथिवीं दृंहेत्य् एषां ह्य् एते लोकानां विधृत्यै परिधीयन्ते ध्रुवक्षितिर् अस्य् अन्तरिक्षं दृंहेत्य् अन्तरिक्षं हि यज्ञो ऽच्युतक्षिद् असि दिवं दृंहेति दिवम् एवैनम् अजीगमद् अग्नेर् भस्मास्य् अग्नेः पुरीषम् असीत्य् अग्नेर् ह्य् एतद् भस्माग्नेः पुरीषं देवपात्रं वा उत्तरवेदि देवेभ्यो देवपात्रं प्रोच्यं वैभ्राजा देवा यद् आह विभ्राड् बृहत् पिबतु सोम्यं मध्व् इति देवेभ्यो वा एतद् देवपात्रं प्राह प्र वसीयसः पात्रम् आप्नोति ब्राह्मणं तु पात्रे न मीमांसेत यः पात्रिय इव स्यात् ॥म्स्_३,८।५॥
भीषापाक्रामत् : फ़्न् एमेन्देद्। एद्।: होत्रादिषापाक्रामत्।
एतावती वा इयं पृथिवी यावती वेदिर् अपरिमिताद् वा एतद् भ्रातृव्यं निर्भज्य यजमानाय परिगृह्णात्य् ऋक्षं वा अमेध्यम् आपो हविर् यत् प्रोक्षति मेध्यम् एवैनत् करोत्य् ऋक्षं वा अमेध्यं यद् बर्हिः स्तृणाति मेध्याम् एवैनां करोत्य् एतावती वा इयं पृथिवी यावती वेदिः प्रजा बर्हिर् यद् बर्हिः स्तृणात्य् अस्यां वा एतत् प्रजाः प्रतिष्ठापयति यजमानो वै प्रस्तरः प्रजा बर्हिर् यत् प्रस्तरम् उत्तरं बर्हिषः सादयति यजमानं वा एतद् उपरिष्टाद् आसां प्रजानां दधात्य् अथ यत् तृणे अन्तर्दधाति तेन यजमानो यजमानेन व्यावर्तते बहुलं बर्हिः स्तृणात्य् अक्षोधुका अस्य पशवो भवन्ति प्राचीनं बर्हिः स्तृणाति प्राङ् हि यज्ञो यत् प्रतीचीनं स्तृणीयात् प्रत्यादाज्यास्य राष्ट्रं घातुकं स्याद् देवेषुर् वै वेदिर् यत्र वै देवेष्वा सन्नतया कामयते तद् धन्ति यद् वेदिं कल्पयति देवेषुं वा एतत् सन्नमति तया सन्नतया यत्र यजमानः कामयते तद् धन्ति त्रयो वै पूर्वे ऽग्नयः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चद् अथ यो ऽयम् इदानीं स भीषापाद्रवद् ईदृग् उ स आरिष्यतीति तं देवा अपाशासुर् उप ना आवर्तस्वेति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीत् त्रयो वै मे पूर्वे भ्रातरः प्राधन्वन् हव्यं देवेभ्यो वहन्तो वषट्कारः प्रावृश्चत् तेषां भागो ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन् सो ऽब्रवीद् यद् एव किञ्चाहुतं बहिष्परिधि स्कन्देत् तद् एव तेषां भागधेयम् असद् इति तेषां वा एतद् भागधेयम् अस्थन्वन्तो हि वै त आसन्न् अथ ते प्राधन्वन् सो ऽब्रवीद् अस्थानि नु धविष्ये ऽथोपावर्त्स्यामीति ते वा अन्वायंस् ते समन्तं पर्यविशन् यज्ञस्य गोपीथायायं वाव यज्ञायोपधीयते ऽयं यजमानायायं भ्रातृव्यायेमौ प्रतरं करोतीमम् अपतरं यज्ञेन वा एतद् यजमानं प्रतरं करोति यज्ञेनास्य भ्रातृव्यम् अपतरं करोति सन्धिं प्रतिजुहोति न ह्य् अग्निम् आहुतिस् तरति मुखत एवैनान् प्रीणात्य् अथो सुतीर्थेन वा एतद् आहुतीस् तारयत्य् अयं वाव भूपतिर् अयं भुवनपतिर् अयं भूतानां पतिर् अथ यो ऽयम् इदानीं स भूतिर् यद् आहुतं बहिष्परिधि स्कन्देत् तद् अभिमन्त्रयेत ॥
करोति : फ़्न् एमेन्देद्। एद्।: करोति