त्रिंशद् यस्या जघनं योजनान्य् उपस्था इन्द्रं स्थविरं बिभर्ति ॥ इति यद् वाव प्राचीनप्रवणं तद् देवयजनं प्राञ्चं हि तं शयानम् अविदन्न् अथ यत् प्राचीनप्रवणम् उदीचीनापनतं तद् यजेत यः कामयेतोभयोर् लोकयोर् ऋध्नुयाम् इत्य् उभयोर् वा एतल् लोकयोर् उभयोर् एव लोकयोर् ऋध्नोत्य् अथ यस्य देवयजनस्योत्तराद् अन्यद् देवयजनं तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वा उत्तरावन् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य मध्यतो बहुला ओषधयस् तत् पशुकामो यजेत पशवो वा ओषधयः पशुमान् भवति यत् समं प्रतिष्ठितं तद् गतश्रीर् यजेत प्रतिष्ठितं वा एतत् प्रतिष्ठित एष यो गतश्रीस् तद् एवैनं प्रतिष्ठापयति पापो हि स ततः प्रच्यवमानो ऽथ यस्य देवयजनस्यापः पुरस्तात् तद् यजेत यः कामयेताभि मोत्तरो यज्ञो नमेद् इत्य् एतद् वै पुरोहविर् नाम देवयजनम् अभ्य् एनम् उत्तरो यज्ञो नमत्य् अथ यस्य देवयजनस्य पन्थाः पुरस्ताद् इरिणं वा कर्तो वा भ्रातृव्यवान् यजेतैतद् वा आप्तं देवयजनं सदेवं यद् धि देवयजनाद् देवयजनम् उञ्शिंषेद् भ्रातृव्याय लोकम् उञ्शिंषेद् अथ यस्य देवयजनस्याहवनीयाद् अन्याः प्राचीर् आपो धावन्ति गार्हपत्याद् अन्याः प्रतीचीस् तद् यजेत यं तल्पे वा पात्रे वा मीमांसेरन्न् अनुषक्तो हि वा एष पाप्मनाथैतन् मीमांसन्त एतद् वै व्यावृत्तं पाप्मना पाप्मनैवैनं व्यावर्तयन्ति यद् वै यज्ञः सन्तिष्ठते प्राचीनम् अस्य समृद्धम् एति प्रतीचीनं व्यृद्धं पशवो वै यज्ञस्य समृद्धम् आपः खलु वै पशवो यत् प्रत्यङ्ङ् अवभृथम् अभ्यवेयाद् यज्ञस्य व्यृध्येन व्यृध्येताथ यत् प्राङ् अवभृथम् अभ्यवैति यज्ञस्य वा एतत् समृध्येन समृध्यते यत् त्र्युन्नतं तद् भ्रातृव्यवान् यजेत यस्याहवनीयं च हविर्धानं चान्तरोन्नतं यस्य हविर्धानं च सदश् चान्तरोन्नतं यस्य सदश् च गार्हपत्यं चान्तरोन्नतम् अतो वै विष्णुर् इमांल् लोकान् उदजयद् विष्णोर् एवोज्जितम् अन्व् इमांल् लोकान् उज्जयति प्रैभ्यो लोकेभ्यो भ्रातृव्यं नुदते ऽथ यस्य देवयजनस्य दक्षिणत उन्नतं तद् भ्रातृव्यवान् यजेतैतां वै दिशं देवा असुरान् प्रणुद्य स्वर्गं लोकम् आयन्न् अथैभ्यो ऽमुम् आदित्यं परिधिं पर्यदधुर् अपुनराभावायैतां वा एतद् दिशं यजमानो भ्रातृव्यं प्रणुद्य स्वर्गं लोकम् एत्य् अथास्मा अमुम् आदित्यं परिधिं परिदधात्य् अपुनराभावाय स्थले यजेत यः कामयेतोभयेषां देवमनुष्याणां प्रकाशं गछेयम् इति प्रकाशो वै नामैतद् देवयजनम् उभयेषां देवमनुष्याणां प्रकाशं गछत्य् अभिशस्यमानं याजयेत् परोक्षं गुहा वने परोक्षं पृष्ठान्य् अपेयुः परोक्षं वा एष यम् अभिशंसन्ति परोक्षम् एवास्माद् गुहा पापीयां वाचं करोत्य् अथ यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अपः सूर्यं तानि पश्येत् तद् ब्रह्मवर्चसकामो यजेत ब्रह्मवर्चसं वा अग्निर् ब्रह्मवर्चसम् आपो ब्रह्मवर्चसम् अस्मा आदित्यो ब्रह्मवर्चसम् एव सन्दधाति ब्रह्मवर्चसी भवत्य् अथ यस्य देवयजनस्यान्याअन्या मध्यतो बहुला ओषधयो ऽतो वा अङ्गिरसः पशून् असृजन्त तत् पशुकामो यजेताथ यस्य देवयजनस्य मध्यत उन्नतम् अतो वा अङ्गिरसः स्वर्गं लोकम् आयंस् तत् स्वर्गकामो यजेत निर्वस्के ऽभिचरन् यजेत यथैवैतं निर्णयत्य् एवं तं निर्णयति यम् अभिचरति यत् कार्यम् इव स्यात् तद् यजेत यः कार्य इव स्याद् आत्मा वै देवयजनं करोत्य् एवैनं ये युवान आर्षेया ऋत्विजो वह्नयस् तद् देवयजनं तस्माद् आहुर् युवैवार्त्विजीना इत्य् अग्निर् वाव देवयजनं तद् य एवं विद्वान् यत्रैव क्वचाग्निम् आधाय यजते देवयजन एव यजते ॥म्स्_३,८।४॥
प्रैभ्यो : फ़्न् एमेन्देद्। एद्।: प्रैभ्यौ।