०३

शतं महिषान् क्षीरपाकम् ओदनं वराहम् इन्द्र एमुषम् ॥ इति तद् वै देवा यज्ञम् अविन्दन् यद् वै तद् यज्ञम् अविन्दंस् तद् देवायजनस्य देवयजनत्वं यद् देवयजनम् इछन्ति यज्ञम् इछन्ति यद् विन्दन्ति यज्ञं विन्दन्ति यद् वाव यजमानो जोषयते तद् देवयजनं यज्ञं वावैतद् यजमानो जोषयते ऽसुराणां वा इयम् अग्र आसीद् यावन् निषद्य परापश्यंस् तद् देवानां ते देवाः सलावृकीम् अब्रुवन् यावद् इयं त्रिः समन्तं पर्येति तद् अस्माकम् इति सा वा इमां त्रिः समन्तं पर्यैत् तद् वै देवा इमाम् अविन्दन्त तद् वेद्या वेदित्वं विष्णुं वै देवा आनयन् वामनं कृत्वा यावद् अयं त्रिर् विक्रमते तद् अस्माकम् इति स वा इदम् एवाग्रे व्यक्रमताथेदम् अथादस् तद् वै देवा इह माम् अविन्दन्त तद् वेद्या वेदित्वं सर्वा वा इयं पृथिवी वेदिर् इयं मेखलम् इति त्व् एवास्या यजमानः परिगृह्णीते यावद्यावद् वै यजमानो वेद्याः कुरुते तावतात्तावत्तात् पृथिव्या जयति तस्मान् महती कार्या ज्यायसीज्यायसी देवाश् च वा असुराश् चास्पर्धन्त तद् यत् किञ्चासुराणां स्वम् आसीत् तद् देवा वेद्याविन्दन्त तद् वेद्या वेदित्वं तेषां यत् प्रियं वस्व् आसीत् तेनापाधावन्न् अनेन चिन् मुच्यामहा इति तद् देवा उत्तरवेद्याविन्दन्त तद् उत्तरं वै श्रेयो ऽविदामहीति तद् उत्तरवेद्या उत्तरवेदित्वं तद् य एवं विद्वान् वेदिं चोत्तरवेदिं च कुरुते ऽभिपूर्वम् एव सपत्नस्य भ्रातृव्यस्य वसु वेदो वृञ्जान एति ॥म्स्_३,८।३॥
ऽविदामहीति : फ़्न् चोर्रिगेन्द। एद्।: विदामहीति।

षट्त्रिंशत् प्रक्रमाः प्राची चतुर्विंशतिर् अग्रेण त्रिंशज् जघनेन तथा विराजा सम्मिताथो छन्दांसि वै विराट् छन्दांसि वावास्यैतद् यज्ञमुखे युनक्त्य् एतद् वा एषाभ्यनुक्ता ॥

इन्द्राणी पत्या सुजितं जिगायोदंशेन पतिविद्ये बिभेद ।