०२

सीद होतः ॥ इत्य् एवाह चतुर्व्रतस् तिस्रश् चत्वारि हीषोः पर्णानि त्रिव्रतस् तिस्रस् त्रिषन्धिर् हीषुः शृङ्गं शल्यः कुल्मलं द्विव्रतस् तिस्रो द्विषन्धिर् हीषुः शल्यश् च कुल्मलं चैकव्रतस् तिस्र एका ह्य् एवेषुर् एषा वै परोवरीयसी दीक्षा कनीयो व्रतम् उपैति ज्यायांसं लोकम् अभिजयत्य् एकव्रतस् तिस्रो द्विव्रतस् तिस्रस् त्रिव्रतस् तिस्रश् चतुर्व्रतस् तिस्र एषा वा उत्क्रामन्ती स्वर्गकामस्योत्तरमुत्तरं श्वःश्वः श्रेयान् भवति य एवं वेद यद् द्वादशाग्निष्टोमस्योपसदः स्युर् अशान्ता निदहेयुर् यत् तिस्रो ऽहिनस्य यथा गरीयान् भार उष्णिहां निशृणात्य् एवं तत् तत् तिस्र एवाग्निष्टोमस्योपसदः कार्या द्वादशाहिनस्य सवीर्यत्वाय ॥म्स्_३,८।२॥
निशृणात्य् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्।

अभ्यर्धो वै देवेभ्यो यज्ञ आसीत् ते नाविदुर् इह वा स इह वेत्य् अस्ति यज्ञ इति त्व् अविदुस् तेन वै संसृष्टिम् ऐछंस् तं प्रैषम् ऐछन् तन् नाविन्दंस् तं वयांस्य् उपर्युपरि नात्ययतंस् तम् इन्द्र उपर्युपर्य् अत्यक्रामत् तम् अचायत् सो ऽवेद् अचिकेद् वै मेति सो ऽब्रवीत् को ऽसा इत्य् अहं दुर्गे हन्तेत्य् अथ कस् त्वम् असीत्य् अहं दुर्गाद् आहर्तेति सो ऽब्रवीद् दुर्गे वै हन्तावोचथा अयं वराह आमुख एकविंशत्याः पुरां पारे ऽश्ममयीनां तस्मिन्न् असुराणां वसु वामम् अन्तस् तं जहीति तस्येन्द्रो द्रुम्भूल्याभ्यायत्य पुरस्ताद् भित्त्वा हृदयं प्रावृश्चद् एतद् वा एषाभ्यनूक्ता ॥

अतिविद्धा विथुरेणा चिद् अस्तास् त्रिःसप्त सानु संहिता गिरीणाम् ।
न तद् देवो न मर्त्यस् तुतुर्याद् यानि प्रवृद्धो वृषभश् चकार ॥ इति सो ऽब्रवीद् दुर्गाद् वा आहर्तावोचथा एतम् आहरेति तं वै विष्णुर् आहरद् यज्ञो वै विष्णुर् यज्ञो वै तद् यज्ञम् असुरेभ्यो ऽध्य् आहरद् यज्ञेन वै तद् यज्ञं देवा असुराणाम् अविन्दन्तैतद् वा एषाभ्यनूक्ता ॥

विश्वेत् ता विष्णुर् आभरद् उरुक्रमस् त्वेषितः ।