असुराणां वा एषु लोकेषु पुर आसन्न् -
अयस्मय्य् अस्मिंल् लोके,
रजतान्तरिक्षे,
हिरिणी दिवि।
ते देवाः संस्तम्भंसंस्तम्भं पराजयन्त।
अनायतना ह्य् आसन्।
त एताः प्रतिपुरो ऽमन्वित - हविर्धानं दिव्य्, आग्नीध्रम् अन्तरिक्षे, सदः पृथिव्याम्।
ते ऽब्रुवन्न् उपसीदामोपसदा वै महापुरं जयन्तीति।
त उपासीदंस्,
तद् उपसदाम् उपसत्त्वं;
तान् एभ्यो लोकेभ्यः प्राणुदन्त।
त एभ्यो लोकेभ्यः प्रणुत्ता अहर् - अश्रयन्त यत् प्रातर् उपसदम्, उपायन्न् अह्न एनांस् तेन प्राणुदन्त ते ऽह्नः प्रणुत्ता रात्रीम् अश्रयन्त यत् सायम् उपसदम् उपायन् रात्र्या एनांस् तेन प्राणुदन्त ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् उपसदम् उपैत्य् अहोरात्राभ्याम् एव भ्रातृव्यम् एभ्यो लोकेभ्यः प्रणुदते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अथ वै तर्हि नेषुर् आसीत् ते देवा एताम् इषुं समस्कुर्वन्न् अग्निं शृङ्गं सोमं शल्यं विष्णुं कुल्मलं ते ऽब्रुवन् क इमाम् इषुम् अवस्रक्ष्यतीति ते देवा अब्रुवन्न् अयम् एव रुद्र इति सो ऽब्रवीद् भागो मे ऽस्त्व् इति वृणीष्वेत्य् अवदन् सो ऽब्रवीन् नैवम् एकश् चनेषुम् अस्ताम् मीमांसाता इति तस्माद् एतस्येषुर् अस्ता न मीमांसितव्या ॥
MT observations (English)
The tripurAntaka brAhmaNa of the maitrAyaNIya shruti. It has a few distinct feature:
- Like the kaTha-s it mentions that the deva-s built 3 counter fortresses to match those of the the asura-s.
- Unlike the kaTha-s & taittirIya-s it doesn’t mention the lordship of animals being offered to rudra in return for his act of shooting down the triple forts of the asura-s (hence the famous name for the missile pAshupata in later tradition);
- viShNu is said to become the kulmala (socket) of the missile instead of its shaft as in the kaTha & taittirIya versions.
- agni is called the shR^i~Nga (horn) of the arrow as in the kaTha rather than just the spike (anIka) as in the taittirIya.
- The maitrAyaNIya-s state that the deva-s were paralyzed & suffered a defeat when the asura-s built the triple-fortress. The kaTha-s state that the deva-s were scattered by the asura-s on that occasion; the taittirIya merely states they failed to conquerer asura-s.
The reference to agni as the “horn” of the missile brings to mind the rhino as the mount of agni in the Eastern tradition that was recently discussed. Finally, in the national epic, pAshupata missile plays are central: while arjuna received it after proving himself as a worthy fighter, he had to reobtain it in a dream on the night before the great battle of the 14th day at kurukShetra.+++(5)+++ Interestingly, just as when used by rudra the one missile has to strike 3 different targets, arjuna too had 2 targets – jayadratha & vR^iddha-kShatra.
सत्यंहम् ॥ इत्य् एव ब्रूयात् तां वै रुद्रो व्यसृजद् एष हि देवानां क्रूरतमस् तयेमाः पुरो ऽभिनद् अग्निना वै स तास् तेजसाभिनत् तस्माद् अग्निः प्रथम इज्यते यद् अन्यां देवतां पूर्वां यजेद् अवीर्यवतीः स्युर् अष्टौ कृत्वो जुह्वां गृह्णाति चतुर् उपभृति पूर्वार्धो हीषोः समाहिततमः सकृत् पराङ् अतिक्रामति सकृद् ध्य् एवेषुः पराच्य् अपतद् अतिक्रम्याश्रावयति यज्ञस्याभिजित्यै यद् अनतिक्रम्याश्रावयेद् अनभिजितो ऽस्य यज्ञः स्यात् स्रुवेणोपसदो जुहोति पुरां वा एष जितानाम् अन्वारोह एकाम् एकाहं जुहोत्य् एकाम् एकाहम् एकां हि त एकाहम् अजयन्न् एकाम् एकाहं तिस्र उपसदो जुहोति त्रयो वा इमे लोका एषां लोकानाम् अभिजित्यय् अग्निना वै मुखेन देवा इमांल् लोकान् अन्ववायन्न् उपसद्भिर् असुरान् पराणुद्याग्निना वा एतन् मुखेन यजमान इमांल् लोकान् अन्ववैत्य् उपसद्भिर् भ्रातृव्यं पराणुद्य याः सायम् अनुवाक्यास् ताः प्रातर् याज्याः स्युर् याः प्रातर् अनुवाक्यास् ताः सायं याज्याः स्युस् तथोभयीर् वीर्यवतीर् भवन्ति ॥म्स्_३,८।१॥
अयः प्रथमायाम् अवधाय जुहोति रजतं मध्यमायां हरितम् उत्तमायाम् एतद् वै बृहस्पतिर् देवेभ्यः पूर्जयनम् अकरोद् यत्र पुरं युध्येयुस् तद् एताभिर् जुहुयात् सरा वा एषा यज्ञस्य तस्माद् यत् किञ्च प्राचीनम् अग्नीषोमीयात् तद् उपांशु चरन्त्य् अथ वा एतद् अग्नीषोमीयं प्रति वाचं विसृजन्ते यज्ञम् एवाप्त्वा वाचं विसृजन्ते घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् स्रुचौ बाहू तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते अवधिषुर् वा एतत् सोमं यद् अस्य स्रुचौ चाज्यं चान्तिकम् अभार्षुर् यद् आहांशुरंशुष् टे देव सोमाप्यायताम् इति यद् एवास्य घ्नन्तः क्रूरम् अक्रंस् तद् अक्रूरम् अकस् तद् आप्याययति सर्व ऋत्विजा आप्याययन्ति सर्वे हि तान्तं भिषज्यन्ति यन्ति वा एते ऽस्माल् लोकाद् ये सोमम् आप्याययितुम् उदस्थुः पराञ्चो हि यन्तीश्वराः प्रमेतोर् यद् आहैष्टा राया एष्टा वामानि प्रेषे भगायेति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृता अनयोर् वा एष गर्भ आभ्याम् एष आवृश्चते यः सोमं हन्ति यद् आह नमो दिवे नमः पृथिव्या इत्य् आभ्याम् एव नमो ऽकर् आतिथ्यं वा उपसदां प्रयाजास् तानूनप्त्रम् आशीस् तस्मान् न होतारं वृणीते नार्षेयम् ॥
आह : फ़्न् आहेष्टा wइथ् फ़ोल्लोwइन्ग् एष्टा।